भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.278

12.278.1

बहूनां यज्ञतपसामेकार्थानां पितामह ।
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः ॥
भीष्म उवाच ।

12.278.2

अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम् ।
उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य च ॥
नारद उवाच ।

12.278.3

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः ।
उञ्छवृत्तिरृषिः कश्चिद्यज्ञं यष्टुं समादधे ॥

12.278.4

श्यामाकमशनं तत्र सूर्यपर्णी सुवर्चला ।
तिक्तं च विरसं शाकं तपसा स्वादुतां गतम् ॥

12.278.5

उपगम्य वने पृथ्वीं सर्वभूताविहिंसया ।
अपि मूलफलैरिष्टो यज्ञः स्वर्ग्यः परन्तप ॥

12.278.6

तस्य भार्या व्रतकृशा शुचिः पुष्करमालिनी ।
यज्ञपत्नी समानीता सत्येनानुविधीयते ॥

12.278.7

सा तु शापपरित्रस्ता तत्स्वभावानुर्तिनी ।
मायूरजीर्णपर्णानां वस्त्रं तस्याश्च वर्णितम् ॥

12.278.8

अकामया कृतस्तत्र यज्ञो होत्रनुमार्गतः ।
शुकस्य पुनराजातिरवध्यानादधर्मवत् ॥

12.278.9

तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः ।
वचोभिरब्रवीत्सत्यं त्वयेदं दुष्कृतं कृतम् ॥

12.278.10

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः ।
मा भोःप्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः ॥

12.278.11

ततस्तु यज्ञे सावित्री साक्षात्तं सन्न्यमन्त्रयत् ।
निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम् ॥

12.278.12

एवमुक्त्वा निवृत्ता सा प्रवृत्ता यज्ञपावकात् ।
किन्नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम् ॥

12.278.13

स तु बद्धाञ्जलिं सत्यमयाचद्धरिणः पुनः ।
सत्येन स परिष्वज्य सन्दिष्टो गम्यतामिति ॥

12.278.14

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत ।
साधु हिंसय मां सत्य हतो यास्यामि सद्गदितम् ॥

12.278.15

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा ।
विमानानि विचित्राणि गन्धर्वाणां महात्मनाम् ॥

12.278.16

ततः स सुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा ।
मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत् ॥

12.278.17

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने ।
तस्य निष्कृतिमाधत्त न त्वसौ यज्ञसंविधिः ॥

12.278.18

तस्य तेनानुभावेन मृगहिंसात्मनस्तदा ।
तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया ॥

12.278.19

ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम् ।
समाधानं च भार्याया लेभे स तपसा परम् ॥

12.278.20

अहिंसा परो धर्मो हिंसाधर्मस्तथा हितः ।
सत्यं तेऽहं प्रवक्ष्यामि नो धर्मः सत्यवादिनाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc