भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.254

12.254.1

मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियाप्रिये वेद त्रिविधा कर्मवेदना ॥

12.254.2

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥

12.254.3

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनो गतिः ।
यदा विकुरुते भाव तदा भवति सा मनः ॥

12.254.4

इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियतेऽसकृत् ।
शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥

12.254.5

पश्यती भवते दृष्टी रसती रसनं भवेत् ।
जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥

12.254.6

इन्द्रियाणीति तान्याहुस्तेष्वदृश्योऽधितिष्ठति ।
तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥

12.254.7

कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह युज्यते ॥

12.254.8

सेयं भावात्मिका भावांस्त्रीनेताननुवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥

12.254.9

यदा प्रार्थयते किञ्चित्तदा भवति सा मनः । अधिष्ठानानि वै बुद्ध्यां पृथगेतानि संस्मरेत ।
इन्द्रियाण्येवमेतानि विजेतव्यानि कृत्स्नशः ॥

12.254.10

सर्वाण्येवानुपूर्व्येण यद्यदाऽनुविधीयते । अविभागगता बुद्धिर्भावे मनसि वर्तते । 12-254-10च् प्रवर्तमानं तु रजः सत्वमप्यनुवर्तते ॥

12.254.11

ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु ।
अन्वर्थाः सम्प्रवर्तन्ते रथनेमिमरा इव ॥

12.254.12

प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥

12.254.13

एवं स्वभावमेवेदमिति विद्वान्न मुह्यति ।
अशोचन्नप्रहृष्यन्हि नित्यं विगतमत्सरः ॥

12.254.14

न चात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनयैर्दुर्धर्षैरकृतात्मभिः ॥

12.254.15

तेषां तु मनसा रश्मीन्यदा सम्यङ्क्तियच्छति ।
तदा प्रकाशतेऽस्यात्मा दीपदीप्ता यथाऽकृतिः ॥

12.254.16

सर्वेषामेव भूतानां मनस्युपरते यथा ।
प्रकाशं भवते सर्वं तथेदमुपधार्यताम् ॥

12.254.17

यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥

12.254.18

एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु कथञ्चन न लिप्यते ॥

12.254.19

त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदाऽत्मनि ।
सर्वभूतात्मभूतस्य गुणवर्गेष्वसज्जतः ॥

12.254.20

सत्वमात्मा प्रसरति गुणान्वाऽपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥

12.254.21

परिद्रष्टा गुणानां च परिस्रष्टा यथातथम् ।
क्षेतक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥

12.254.22

सृजतेऽत्र गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्या तौ सम्प्रयुक्तौ च सर्वदा ॥

12.254.23

यथा मत्स्योऽद्भिरन्यः स्यात्सम्प्रयुक्तौ तथैव तौ ।
मशकोदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सह ॥

12.254.24

इषीका वा यथा मुञ्जे पृथक्च सह चैव च ।
तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc