भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.255

12.255.1

सृजते त्रिगुणान्सत्वं क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान्विक्रियते सर्वानुदासीनवदीश्वरः ॥

12.255.2

स्वभावयुक्तं तत्सत्वं यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान् ॥

12.255.3

प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥

12.255.4

उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति ।
अनेनैव विधानेन भवेद्गर्भशयो महान् ॥

12.255.5

अनादिनिधनं नित्यं तं बुद्ध्वा विचरेन्नरः ।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥

12.255.6

इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः ॥

12.255.7

ताम्येयुः प्रच्युताः पृथ्व्यां यथा पूर्णां नदीं नराः ।
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा ॥

12.255.8

न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
एवं यो विन्दतेऽत्मानं केवलं ज्ञानमात्मनः ॥

12.255.9

एवं बुद्ध्वा नरः सर्वं भूतानामागतिं गतिम् ।
समवेक्ष्य च वैषम्यं लभते शममुत्तमम् ॥

12.255.10

एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम् ॥

12.255.11

एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥

12.255.12

न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं परत्र ।
न हि गतिरधिकाऽस्ति कस्यचि द्भवति हि या विदुषः सनातनी ॥

12.255.13

लोकमातुरमसूयते जन स्तत्तदेव च निरीक्ष्य शोचते ।
तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं कृताकृतम् ॥

12.255.14

यत्करोत्यनभिसन्धिपूर्वकं तच्च निर्णुदति ---
न प्रियं तदुभयं न चाप्रिय तस्य तज्जनयतीह कुर्वतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc