भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.253

12.253.1

अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे ।
यदध्यात्मं यथा वेद भगवन्नृषिसत्तम ॥
व्यास उवाच ।

12.253.2

अध्यात्मं यदिदं तात पुरुषस्येह विद्यते ।
तत्तेऽहं वर्तयिष्यामि तस्य व्याख्यामिमां शृणु ॥

12.253.3

भूमिरापस्तथा ज्योतिर्वायुराकाश एव च ।
महाभूतानि भूतानां सागरस्योर्मयो यथा ॥

12.253.4

प्रसार्येह यथाऽङ्गानि कूर्मः संहरते पुनः ।
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥

12.253.5

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् ।
सर्गे च प्रलये चैव तस्मिन्निर्दिश्यते तथा ॥

12.253.6

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥
शुक उवाच ।

12.253.7

अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् ।
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥
व्यास उवाच ।

12.253.8

एतत्ते वर्तयिष्यामि यथावदनुपूर्वकः ।
शृणु तत्त्वमिहैकाग्रो यथा तत्त्वं यथा च तत् ॥

12.253.9

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसम्भवम् ।
प्राणश्रेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥

12.253.10

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसः ॥

12.253.11

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥

12.253.12

एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः । वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रुपमुच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥

12.253.13

मनो बुद्धिः स्वभावश्च त्रय एते मनोमयाः ।
न गुणानतिवर्तन्ते गुणेभ्यः परमागताः ॥

12.253.14

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥

12.253.15

यदूर्ध्वं पादतलयोरवाङ्भूर्ध्नश्च पश्यति ।
एतस्मिन्नेव कृत्ये तु वर्तते बुद्धिरुत्तमा ॥

12.253.16

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनः षष्ठानि सर्वाणि बुद्ध्य भावे कृतो गुणाः ॥

12.253.17

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥

12.253.18

चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥

12.253.19

रजस्तमश्च सत्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥

12.253.20

तत्र यत्प्रीतिसंयुक्तं किञ्चिदात्मनि लक्षयेत् ।
प्रशान्तमिव संशुद्धं सत्वं तदुपधारयेत् ॥

12.253.21

यत्तु सन्तापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥

12.253.22

यत्तु सम्मोहसंयुक्तमव्यक्तविषयं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥

12.253.23

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वर्तन्ते सात्विका गुणाः ॥

12.253.24

अभिमानो मृषावादो लोभो मोहस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥

12.253.25

तथा मोहः प्रमादश्च निद्रा तन्द्रा प्रबोधिता ।
कथञ्चिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc