महाभारत · अध्याय 12.252
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः ।
न चैनं ते प्रजानन्ति स तु जानाति तानपि ॥
तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः ॥
इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥
एवं सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥
अन्तरात्मनि संलीय मनः षष्ठानि मेधया ।
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन् ॥
ध्यानोपरमणं कृत्वा विद्यासम्पादितं मनः ।
अनिश्चरः प्रशान्तात्मा ततोर्च्छत्यमृतं पदम् ॥
इन्द्रियाणां तु सर्वेषां पश्यात्मा चलितस्मृतिः ।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥
हित्वा तु सर्वसन्कल्पान्सत्वे चित्तं निवेशयेत् ।
सत्वे चित्तं समावेश्य ततः कालञ्जरो भवेत् ॥
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ।
निवाते वा यथा दीपो दीप्यमानो न कम्पते ॥
एवं पूर्वापरे रात्रौ युञ्जन्नात्मानमात्मनि ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥
रहस्यं सर्ववेदानामनैतिह्यमनागतम् ।
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम् ॥
धर्माख्यानेषु सर्वेषु चित्राख्यानेषु यद्वसु ।
दृश्यते ऋक्सहस्राणि निर्मथ्यामृतमुद्धृतम् ॥
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम् ॥
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदितं नाप्रशान्ताय नादान्तायातपस्विने ॥
नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥
इदं प्रियाय पुत्राय शिष्यायानुगताय च ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथञ्चन ॥
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इदमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्जुष्टं वेदान्तेषु च गीयते ॥
तत्तेऽहं सम्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ॥
यच्च ते मनसि वर्तते परं यत्र चास्ति तव संशयः क्वचित् ।
श्रूयतामयमहं तवाग्रतः पुत्र किं हि कथयामि ते पुनः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0