भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.249

12.249.1

--तीयमायुषो भागं गृहमेधी गृहे वसेत् ।
धर्मलब्धैर्युतो दारैरग्नीनाहृत्य सुव्रतः ॥

12.249.2

गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः ।
कुमूलधान्यः प्रथमः कुम्भधान्यस्त्वनन्तरम् ॥

12.249.3

अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् ।
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥

12.249.4

षट््कर्मावर्तयत्येकस्त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ॥

12.249.5

गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ।
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशून् ॥

12.249.6

प्राणी वा यदि वाऽप्राणी संस्कारं यजुषाऽर्हति ।
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः ॥

12.249.7

न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ।
नास्यानश्नन्गृहे विप्रो वसेत्कश्चिदपूजितः ॥

12.249.8

तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ।
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ॥

12.249.9

स्वकर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ।
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥

12.249.10

नखरैः सम्प्रयातस्य स्वकर्मव्यापकस्य च ।
अपविद्धाग्निहोत्रस्य गुरोर्वाऽलीकचारिणः ॥

12.249.11

संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते ।
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥

12.249.12

विस्साशी भवेन्नित्यं नित्यं चामृतभोजनः ।
असुत --शेषं स्याद्भोजनं हविषा समम् ॥

12.249.13

भृत्यशेष तु योऽश्नाति तमाहुर्विघसा शिनम् ।
विघसं भृत्यशेषं तु यज्ञशेषमथास्मृतय ॥

12.249.14

स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः ।
ऋत्विक्पुरोहिताचार्यर्मालुलातिथिनंश्रितैः ॥

12.249.15

वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धिरान्धवैः ।
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भावया ॥

12.249.16

दुहित्रा दासवर्गेण विवादं न समाचरत् ।
एतान्विमुच्य संवादान्सर्वपापैर्विमुच्यते ॥

12.249.17

एतैर्जितस्तु जयति सर्वाल्लोँकान्न संशयः ।
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥

12.249.18

अतिथिस्त्विन्द्रलोकस्य देवलोकस्य चर्त्विजः ।
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥

12.249.19

सम्बन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ ।
बृद्धबावातुरकृशास्त्वाकाशे प्रभविष्णवः ॥

12.249.20

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।
छाया स्वा दासवर्गश्च दुहिता कृपणं परम् ॥

12.249.21

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः ।
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥

12.249.22

न चार्थबद्धः कर्माणि धर्मं वा किञ्चिदाचरेत् ।
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥

12.249.23

परम्परं तथैवाहुश्चातुराश्रम्यमेव तत् ।
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥

12.249.24

कुम्भधान्यैरुच्छशिलैः कापोतीं चास्थितास्तथा ।
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥

12.249.25

दश पूर्वान्दश परान्पुनाति च पितामहान् ।
गृहस्थवृत्तीश्चाप्येता वर्तयेद्यो गतव्यथः ॥

12.249.26

स चक्रधरलोकानां सदृशीमाप्नुयाद्गतिम् ।
वितेन्द्रियाणामथवा गतिरेषा विधीयते ॥

12.249.27

सर्वलोको गृहस्थानामुदारमनसां हितः ।
-- विमानसंयुक्तो वेददृष्टः ----- ॥

12.249.28

--लोको गृहस्थानां प्रतिष्ठा निवतात्मनान् । ब्रह्मणा विहिता श्रेणिरेषा पस्पाद्विधीयते ।
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥

12.249.29

अतः परं परममुदारमाश्रम् तृतीयमाहुस्त्यजतां कलेवरम् ।
वनौकसां गृहपतिनामनुत्तमं शृणुष्व संश्लिष्टशरीरकारिणाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc