भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.248

12.248.1

क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च ।
बुद्ध्यैश्वर्यातिसर्गोऽयं प्रधानश्चात्मनः श्रुतम् ॥

12.248.2

भूय एव तु लोकेऽस्मिन्सद्वृतिं कालहेतुकीम् ।
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्तितुम् ॥

12.248.3

वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च ।
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥

12.248.4

लोकवृत्तान्ततत्वज्ञः पूतोऽहं गुरुशासनात् ।
कृत्वा बुद्धिं विमुक्तात्मा द्रक्ष्याम्यात्मानमव्ययं ॥
व्यास उवाच ।

12.248.5

एषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥

12.248.6

ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः ।
आत्मनश्च हृदि श्रेयो ह्यन्विच्छन्मनसाऽत्मनि ॥

12.248.7

वने मूलफलाशी च तप्यन्सुविपुलं तपः ।
पुण्यायतनचारी च भूतानामविहिंसक ॥

12.248.8

विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये ।
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥

12.248.9

निस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे ।
अरण्ये विचरैकाकी येनकेनचिदाशितः ॥
शुक उवाच ।

12.248.10

यदिदं वेदवचनं लोकवादे विरुध्यते ।
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रतः कुतः ॥

12.248.11

इत्येतच्छ्रोतुमिच्छामि प्रमाणं तूभयं कथम् ।
कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥
भीष्म उवाच ।

12.248.12

इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ।
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥
व्यास उवाच ।

12.248.13

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥

12.248.14

एको वाऽप्याश्रमानेतान्योऽनुतिष्ठेद्यथाविधि ।
अकामद्वेषसंयुक्तः स परत्र महीयते ॥

12.248.15

चतुष्पदी हि निःश्रेयणी ब्रह्मण्येषा प्रतिष्ठिता ।
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥

12.248.16

आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः ।
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥

12.248.17

जघन्यशायी पूर्वं स्यादुत्थाय गुरुवेश्मनि ।
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥

12.248.18

कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः ।
किन्करः सर्वकारी स्यात्सर्वकर्मसु कोविदः ॥

12.248.19

कर्मातिशेषेण गुरावध्येतव्यं बुभूषता ।
दक्षिणेनोपसादी स्यादाकूतो नुल्माश्रयेत् ॥

12.248.20

शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमिवान्तरा ।
चक्षुष गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥

12.248.21

नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् ।
नातिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥

12.248.22

उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ।
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥

12.248.23

अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति ।
इदं करिष्ये भगवन्निदं चापि कृतं मया ॥

12.248.24

ब्रह्मंस्तदपि कर्ताऽस्मि यद्भावन्वक्ष्यते पुनः । इति सर्वमनुज्ञाप्य निवेद्य गुरवे पुनः ।

12.248.25

कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ।
यांस्तु गन्धान्रसान्वाऽपि ब्रह्मचारी न सेवते ॥

12.248.26

सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ।
ये केचिन्नियमेनोक्ता नियमा ब्रह्मचारिणः ॥

12.248.27

तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ।
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ॥

12.248.28

अग्राम्येणा मेष्वेवं शिष्यो वर्तते कर्मणा । वदव्रतोपवासेन चतुर्थे च------- ।
गुरवे दक्षिणां दत्त्वा समावतेद्यथातिधि---- ॥

12.248.29

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य यनतः ।
द्वितीयमायुषो भागं गृहमेधी भवेद्व्रती ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc