महाभारत · अध्याय 12.250
प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः ।
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥
व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने ।
व्यास उवाच ।
क्रय----त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम् ।
संयोगव्रत----वानप्रस्थाश्रमौकसाम् ॥
श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम् ।
प्रेक्षापूर्वं यदा पत्त्येद्वलीपलितमात्मना ॥
अपत्यस्यैव चापण्यं वनमेव तदाऽश्रयेत् ॥
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।
तानेवाग्नीन्पस्त्विरेद्यजमानो दि--कसः ॥
निय------नियताराहः षष्ठभक्तो ---त्तवान ।
तदाग्रहात्रं तो --- यज्ञाङ्गां व सर्वशः ॥
अवैकृष्टं व्रीहियव नीवारे विघसानि च ।
हवींषि सम्प्रयच्छेत मखेष्वत्रापि पञ्चसु ॥
वानप्रस्खाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः ।
सद्यः प्रक्षालकाः केचित्केचिन्मासिकसञ्चयाः ॥
वार्षिकं सञ्चयं केचित्केतिद्द्वादशवार्षिकम् ।
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा ॥
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ।
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि ।
स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते ॥
दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे ।
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥
कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम् ।
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः ।
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः । वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः सम्प्रवर्तते ।
अस्मिन्नेव युगे तात वितैस्तत्वार्थदर्शिभिः ॥
अगस्त्यः सप्तऋषयो मधुच्छन्दोऽधमर्षणः ।
सान्कृतिः सुदिवातण्डिर्यथावासो कृतश्रमः ॥
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिदु । बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रम----- ।
एते धर्मे सुविद्वांसस्ततः स्वर्गमुसागमन ॥
तात प्रत्यक्षधर्माणस्तथा काथवारा गणाः ।
ऋषीणामुग्रतपसां धर्मनैपुणेदर्शिनाम् ॥
अन्ये चापरिमेयाश्च ब्राह्मणा वनमश्रितताः ।
वैखातसा वालखिल्याः सैकताच्च तथा परे ॥
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः ।
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ॥
अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः ।
जरया च परिद्यूना व्याधिना च प्रपीडिताः ॥
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ।
साद्यस्कां सन्निरुप्येष्टिं सर्ववेदसदक्षिणाम् ॥
आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः ।
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥
साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा ।
यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते ॥
त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात् ।
प्राणेभ्यो यजुषां पञ्च षट्् प्राश्नीयादकुत्सयन् ॥
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः ।
आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः ॥
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः ।
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥
सुशीलवृत्तो व्यपनीतकल्मषो नचेह नामुत्र च कर्तुमीहते ।
अरोपमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः ॥
यमेषु चैवानुगतेषु न व्यथे त्स्वशास्त्रमूत्राहुतिमन्त्रविक्रमः ।
भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये ॥
ततः परं श्रेष्ठमतीव सद्गुणै रधिष्ठितं त्रीनधिवृत्तिमुत्तमम् ।
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0