भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.247

12.247.1

यदिदं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥

12.247.2

एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।
एतच्चान्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ॥
भीष्म उवाच ।

12.247.3

इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम् ।
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ ॥

12.247.4

यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा ।
शृणुष्वैकमना वत्स गह्वरं ह्येतदन्तरम् ॥

12.247.5

अस्ति धर्म इति ह्युक्त्वा नास्तीत्यत्रैव यो वदेत् ।
तस्य पक्षस्य सदृशमिदं मम भवेदथ ॥

12.247.6

द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च व्यवस्थितः ॥

12.247.7

कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥

12.247.8

कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
विद्यया जायते नित्यमव्ययो ह्यक्षरात्मकः ॥

12.247.9

कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितया नराः ।
तेन ते देहजालानि रमयन्त उपासते ॥

12.247.10

ये स्म बुद्धिं परां प्राप्ता धमैर्नपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव ॥

12.247.11

कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥

12.247.12

यत्र गत्वा न म्रियते यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥

12.247.13

यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रवम् ।
अव्याहतमनायासममृतं चावियोगि च ॥

12.247.14

द्वन्द्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥

12.247.15

विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः । विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम् ।
विद्यामयं तं पुरुषं नित्यं ज्ञानगुणात्मकम् ॥

12.247.16

तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते ।
नवं तु शशिनं दृष्ट्वा वक्रतन्तुमिवाम्बरे ॥

12.247.17

एकादशविकारात्मा कलासम्भारसम्भृतः ।
मृर्तिमानिति तं विद्धि तात कर्म गुणात्मकम् ॥

12.247.18

तस्मिन्यः संस्थितो ह्यग्निर्नित्यंस्थाल्यामिवाहितः ।
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकं ॥

12.247.19

देवो यः संश्रितस्तस्मिन्नब्विन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥

12.247.20

तमोरजश्च सत्त्वं च विद्धि जीवगुणात्मकम् ।
जीवमात्मगुणं विद्यादात्मानं प-----नः ॥

12.247.21

अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc