भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.240

12.240.1

भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया ।
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि साम्प्रतम् ॥

12.240.2

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम् ।
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे ॥

12.240.3

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः ।
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित् ॥

12.240.4

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि ॥

12.240.5

प्रजासर्गण दारैश्च ब्रह्मचर्येण वा पुनः ।
वने गुरुसकाशे वा यतिधर्मेण वा पुनः ॥

12.240.6

गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते ।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति ॥

12.240.7

प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः ।
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः ॥

12.240.8

यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत् ।
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे ॥

12.240.9

तपसा वः सुमहता विद्यानां पारणेन वा ।
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः ॥

12.240.10

यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी ।
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते ॥

12.240.11

अध्यापयेदधीयीत याजयेत यजेत वा ।
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथञ्चन ॥

12.240.12

याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत् ।
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथञ्चन ॥

12.240.13

गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम् ।
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम् ॥

12.240.14

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम् ।
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि ॥

12.240.15

अर्हतामनुरूपाणां नादेयं ह्यस्ति किञ्चन । उच्चैः श्रवसमप्यक्षं काश्यपाय महात्मने ।
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान् ॥

12.240.16

अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः ।
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः ॥

12.240.17

रन्तिदेवश्च सान्कृत्यो वसिष्ठाय महात्मने ।
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते ॥

12.240.18

आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम् ।
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः ॥

12.240.19

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम् ।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥

12.240.20

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके ।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥

12.240.21

दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत् ।
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम् ॥

12.240.22

सान्कृतिश्च तथाऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम् ।
उपदिश्य महातेजा गतो लोकाननुत्तमान् ॥

12.240.23

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान् ।
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम् ॥

12.240.24

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः ।
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम् ॥

12.240.25

सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः ।
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः ॥

12.240.26

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुन्धराम् ।
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वी सपत्तनाम् ॥

12.240.27

अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत ।
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः ॥

12.240.28

करन्धमस्य पुत्रस्तु मरुतो नृपतिस्तथा ।
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह ॥

12.240.29

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः ।
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान् ॥

12.240.30

राजा मित्रसहश्चापि वसिष्ठाय महात्मने ।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः ॥

12.240.31

सहस्रजिच्च राजर्षिः प्राणानिंष्टान्महायशाः ।
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान् ॥

12.240.32

सर्वकामैश्च सम्पूर्णं दत्त्वा वेश्म हिरण्मयम् ।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः ॥

12.240.33

नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान् ।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥

12.240.34

लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः ।
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत ॥

12.240.35

मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम् ।
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान् ॥

12.240.36

दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित् ।
सवत्सानां महातेजा गतो लोकाननुत्तमान् ॥

12.240.37

एते चान्ये च बहवो दानेन तपसैव च ।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः ॥

12.240.38

तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ।
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc