भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.241

12.241.1

त्रयीं विद्यामवेक्षेत वेदेपूत्तमतां गतः ।
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा ॥

12.241.2

[तिष्ठत्येतेषु भगवान्षट््सु कर्मसु संस्थितः.] वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये ॥

12.241.3

सत्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ ।
एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत् ॥

12.241.4

असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः ।
सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः ॥

12.241.5

स्वधर्मेण क्रिया लोके कुर्वाणः सोऽप्यसङ्करः ।
तिष्ठते तेषु गृहवान्षट््सु कर्मसु स द्विजः ॥

12.241.6

पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च । धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥

12.241.7

दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः ।
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ॥

12.241.8

धूतपाप्मा च मेधावी लघ्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥

12.241.9

अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।
वर्जयेदुशतीं वाचं हिंसां चाधर्मसंहिताम् ॥

12.241.10

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिद्ध्यति ॥

12.241.11

पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम् ।
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान् ॥

12.241.12

कालमभ्युद्यतं पश्येन्नित्यमत्यन्तमोहनम् ॥

12.241.13

महता विधिदृष्टेन बलिनाऽप्रतिघातिना ।
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत् ॥

12.241.14

कालोदकेन महता वर्षावर्तेन सन्ततम् ।
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च ॥

12.241.15

निर्मषोन्मेषफेनेन अहोरात्रजवेन च ।
कामग्राहेण घोरेण वेदयज्ञप्लवेन च ॥

12.241.16

धर्मद्वीपेन भूतानां चार्थकामरवेण च ।
ऋतवाङ्भोक्षतीरेण विहिंसातरुवाहिना ॥

12.241.17

युगह्रदौघमध्येन ब्रह्मप्रायभवेन च ।
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम् ॥

12.241.18

एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः ।
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः ॥

12.241.19

उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः ।
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति ॥

12.241.20

संशयात्तु स कामात्मा चलचित्तोऽल्पचेतनः ।
अप्राज्ञो न तरत्येनं यो ह्यास्ते न स गच्छति ॥

12.241.21

अप्लवो हि महादोषं मुह्यमानो न गच्छति ।
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः ॥

12.241.22

तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः ।
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत् ॥

12.241.23

त्र्यवदाते कुले जातस्त्रिसन्देहस्त्रिकर्मकृत् ।
तस्मादुन्मज्जनं तिष्ठेत्प्रज्ञया निस्तरेद्यथा ॥

12.241.24

संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च ॥

12.241.25

वर्तेत तेषु गृहवानक्रुध्यन्ननसूयकः ।
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च ॥

12.241.26

सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।
असंरोधेन लोकस्य वृत्तिं लिप्सेदगर्हिताम् ॥

12.241.27

श्रुतविज्ञानतत्त्वज्ञः शिष्टाचारविचक्षणः ।
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसन्करः ॥

12.241.28

क्रियावाञ्श्रद्दधानो कहि दान्तः प्रायोऽनसूयकः ।
धमार्धर्मविशेषज्ञः सर्वं तरति दुस्तरम् ॥

12.241.29

धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान् ।
वीतहर्षमदक्रोधो ब्राह्मणो नावसीदति ॥

12.241.30

एषा पुरातनी वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवृद्ध्यैव कर्माणि कुर्वन्सर्वत्र सिध्यति ॥

12.241.31

अधर्मं धर्मकामो हि करोति ह्यविचक्षणः ।
धर्मं वा धर्मसन्काशं शोचन्निव करोति सः ॥

12.241.32

धर्मं करोमीति करोत्यधर्म मधर्मकामश्च करोति धर्मम् ।
उभे बालः कर्मणी न प्रजानम् सञ्जायते म्रियते चापि देही ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc