भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.239

12.239.1

प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि ।
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः ॥

12.239.2

दिवि सूर्यस्तथा सप्त दहन्ति शिखिनोऽर्चिषः ।
सर्वमेतत्तदाऽर्चिर्भिः पूर्णं जाज्वल्यते जगत् ॥

12.239.3

पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च ।
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥

12.239.4

ततः प्रलीने सर्वास्मिन्स्थावरे जङ्गमे तथा ।
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत् ॥

12.239.5

भूमेरपि गुणं गन्धमाप आददते यदा ।
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते ॥

12.239.6

आपस्तत्र प्रतिष्ठन्ते ऊर्मिमत्यो महास्वनाः ।
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च ॥

12.239.7

अपामपि गुणांस्तात ज्योतिराददते यदा ।
आपस्तदा त्वात्तगुणा ज्योतिः षूपरमन्ति वै ॥

12.239.8

यदाऽदित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः ।
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नमः ॥

12.239.9

ज्योतिषोऽपि गुणं रूपं वायुराददते यदा ।
प्रशाम्यति ततो ज्योतिर्वायुर्दोधूयते महान् ॥

12.239.10

ततस्तु मूलमासाद्य वायुः सम्भवमात्मनः ।
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश ॥

12.239.11

वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदन् ॥

12.239.12

अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ।
सर्वलोकप्रणुदितं स्वं तु तिष्ठति नानदत् ॥

12.239.13

आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः । ग्रसते च यदा सोऽपि शाम्यति प्रतिसञ्चरे ।
मनसो व्यक्तमव्यक्तं ब्राह्मः सम्प्रतिसञ्चरः ॥

12.239.14

तदाऽत्मगुणमाविश्य मनो ग्रसति चन्द्रमाः ।
मनस्युपरते चात्मा चन्द्रमस्युपतिष्ठते ॥

12.239.15

तं तु कालेन महता सन्कल्पं कुरुते वशे ।
चित्तं ग्रसति सन्कल्पस्तच्च ज्ञानमनुत्तमम् ॥

12.239.16

कालो गिरति विज्ञानं कालं बलमिति श्रुतिः ।
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे ॥

12.239.17

[आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽत्मनि.] तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम् ।
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंहरेत् ॥

12.239.18

यथावत्कीर्तितं सत्यमेवमेतदसंशयम् ।
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः ॥

12.239.19

एवं विस्तारसन्क्षेपौ ब्रह्माव्यक्ते पुनःपुनः ।
युगसाहस्रयोरादावहोरात्र्यास्तथैव च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc