भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.194

12.194.1

चातुरात्रस्यनुक्तं ते राजधर्मास्तथैव च ।
नानाश्रयाश्च भगवन्नितिहासाः पृथग्विधाः ॥

12.194.2

धुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते ।
सन्देहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति ॥

12.194.3

जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत ।
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥

12.194.4

जपस्य च विधिं कृत्स्नं वक्तुमर्हसि सेऽनघ ।
जापका इति किञ्चैतत्साङ्ख्ययोगक्रियाविधिः ॥

12.194.5

किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते ।
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः ॥
भीष्म उवाच ।

12.194.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यमस्य यत्पुरा वृत्तं कालस्य ब्राह्मणस्य च ॥

12.194.7

इक्ष्वाकोश्चैव मृत्योश्च विवादे धर्मकारणात् । सन्न्यास एव वेदान्ते वर्तते जपनं प्रति ।
वेदवादाङ्गनिर्वृत्ताः शान्ता ब्रह्मण्यवस्थिताः ॥

12.194.8

साङ्ख्ययोगौ तु यावुक्तौ मुनिभिः समदर्शिभिः ।
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ ॥

12.194.9

यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते ।
क्रमेण चैव विहितो जपयज्ञविधिर्नृप ॥

12.194.10

सालम्बनमिति ज्ञेयं जपयज्ञात्मकं शुभम् । मनः समाधिरेवात्र तथेन्द्रियजयः स्मृतः ॥

12.194.11

सत्यमग्निपरीचारो विविक्तानां च सेवनम् ।
ध्यानं तपो दमः क्षान्तिरनसूया मिताशनम् ॥

12.194.12

विषयप्रतिसंहारो मितजल्पस्तथा शमः ।
एष प्रर्वाको धर्मो निवर्तकमथो शृणु ॥

12.194.13

यथा निवर्तते धर्मो जपतो ब्रह्मचारिणः । न जपो न च वै ध्यानं नेच्छा न द्वेषहर्षणौ ।
युज्यते नृपशार्दूल सुसंवेद्यं हि तत्किल ॥

12.194.14

जपमावर्तयन्नित्यं जपन्वै ब्रह्मचारिकम् ।
तदर्थबुद्ध्या संयाति मनसा जापकः परम् ॥

12.194.15

यथा संश्रूयते जापो येन वै जापको भवेत् ।
संहिताप्रणवेनैव सावित्री च परा मता ॥

12.194.16

यदन्यदुचितं शुद्धं वेदस्मृत्युपपादितम् । एतत्सर्वमशेषेण यथोक्तं परिवर्तयेत् ॥

12.194.17

द्विविदं मार्गमासाद्य व्यक्ताव्यक्तमनामयम् । कुशोच्चयनिषष्णः सन्कुशहस्तः कुशैः शिख ।
कुशैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा ॥

12.194.18

विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत् ।
साम्यमुत्पाद्य मनसा मनस्येव मनो दधत् ॥

12.194.19

तद्धिया ध्यायति ब्रह्म जपन्वै संहितां हिताम् ।
सन्न्यस्यत्यथवा तां वै समाधौ पर्यवस्थितः ॥

12.194.20

ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात् ।
अथाभिमतमन्त्रेण प्रणवाद्यं जपेत्कृती ॥

12.194.21

यस्मिन्नेवाभिपतितं मनस्तत्र निवेशयेत् । समाधौ स हि मन्त्रे तु संहितां वा यथाविधि ।
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान् ॥

12.194.22

अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते ।
न कर्ता करणीयानां नाकार्याणामिति स्थितिः ॥

12.194.23

न चाहन्कारयोगेन मनः प्रस्थाफ्येत्क्वचित् ।
न चार्थग्रहणे युक्तो नावमानी न चाक्रियः ॥

12.194.24

ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः ।
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात् ॥

12.194.25

स वै तस्यामवस्थायां सर्वत्यागकृतः सुखी ।
निरिच्छस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम् ॥

12.194.26

निरालम्बो भवेत्स्मृत्वा मरणाय समाधिमान् । सर्वाल्लोँकान्समाक्रम्य क्रमात्प्राप्नोति वै परम् ॥

12.194.27

अथवा नेच्छते तत्र ब्रह्मकायनिषेवणम् ।
उत्क्रामति च मार्गस्थो नैव क्वचन जायते ॥

12.194.28

आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः ।
अमृतं विरजाः शुद्धमात्मानं प्रतिपद्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc