महाभारत · अध्याय 12.195
गतीनामुत्तमा प्राप्तिः कथिता जापकेष्विह ।
एकैवैषा गतिस्तेषामुत यान्त्यपरामपि ॥
भीष्म उवाच ।
शृणु वहितो राजञ्जापकानां गतिं विभो ।
यथा गच्छन्ति निरयमनेकं पुरुषर्षभ ॥
यथोक्तमेतत्पूर्वं यो नानुतिष्ठति जापकः ॥
एकदेशक्रियश्चात्र निरयं स निगच्छति ॥
अवमानेन कुरुते न तुष्यति न शोचति ।
ईदृशो जापको याति निरयं नात्र संशयः ॥
अहन्कारकृतश्चैव सर्वे निरयग्रामिनः ।
परावमानी पुरुषो भविता निरयोपगः ॥
अभिध्यापूर्वकं जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्रतत्रोपपद्यते ॥
अथैश्वर्यप्रसक्तः सञ्जापको यत्र रज्यते ।
स एव निरयस्तस्य नासौ तस्मात्प्रमुच्यते ॥
रागेण जापको जप्यं कुरुते यश्च मोहितः ।
यत्रास्य रागः पतति तत्र तत्रोपजायते ॥
दुर्बुद्धिरकृतप्रज्ञश्चले मनसि तिष्ठति ।
फलस्यापचितिं याति निरयं चाधिगच्छति ॥
अकृतव्रज्ञको बालो मोहं गच्छति जापकः ।
स मोहान्निरयं याति यत्र गत्वाऽनुशोचति ॥
दृढग्राही करोमीति जाप्यं जपति जापकः ।
न सम्पूर्णो न वा युक्तो निरयं सोऽधिगच्छति ॥
अनिमित्तं परं यत्तदव्यक्तं ब्रह्मणि स्थितम् ।
तद्भूतो जापकः कस्मात्सशरीरमिहाविशेत् ॥
दुष्प्रज्ञानेन निरया बहवः समुदाहृताः ।
प्रशस्तं जापकत्वं च दोषाश्चैते तदात्मकाः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0