भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.193

12.193.1

हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् ।
यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्तीह महर्षयः ॥

12.193.2

यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ।
महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥

12.193.3

नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः ।
अन्मदोषपरिक्षीणाः स्वभावे पर्युपस्थिताः ॥

12.193.4

निर्द्वन्द्वा नित्यसत्वस्था विमुक्तिं नित्यमश्रिताः ।
असङ्गीन्यविवादीनि मनः शान्तिकराणि च ॥

12.193.5

तत्र ध्यानेन संश्लिष्टमेकाग्रे धारयेन्मनः ।
तत्र च ध्यानसंरोधादथ ज्ञानी भवत्युत ॥

12.193.6

चतुर्विधेषु भावेषु योऽर्थसक्तः सदैव हि । तज्ज्ञात्वा वास्तवं तेषामर्थेषु परिवर्तते ।
पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥

12.193.7

शब्दं न विन्देच्छ्रोत्रेण त्वचा स्पर्शं न वेदयेत् ।
रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥

12.193.8

घ्रेयाण्यपि च सर्वाणि जह्याद्राणेन योगवित् ।
पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥

12.193.9

ततो मनसि संसृज्य पञ्चवर्ग विचक्षणः ।
समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चमिः ॥

12.193.10

विसञ्चारि निरालम्बं पञ्चद्वारं चलाचलम् ।
पूर्वं ध्यानपदे धीरः समादध्यान्मनो नरः ॥

12.193.11

इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।
एव ध्यानपथः पूर्वो मया समनुवर्णितः ॥

12.193.12

तस्य तत्पूर्वसंरुद्धमात्सषष्ठं मनोऽन्तरा ।
स्फुरिष्यति समुद्धान्तं विद्युदम्बुधरे यथा ॥

12.193.13

जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।
एवमेवास्य तच्चित्तं भ्रमति ध्यानवर्त्मनि ॥

12.193.14

समाहितं क्षणं किञ्चिद्ध्यानवर्त्मनि तिष्ठति ।
पुनर्वायुपथं प्राप्तं मनो भवति वायुवत् ॥

12.193.15

अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः ।
समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥

12.193.16

विचारश्च विवेकश्च वितर्कश्चोपजायते ।
मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥

12.193.17

मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।
न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥

12.193.18

पांसुभस्मकरीषाणां यथा वै राशयश्चिताः ।
सहसा वारिणा सिक्ता न यान्ति परिभावनम् ॥

12.193.19

किञ्चित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् ।
क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥

12.193.20

एवमेवेन्द्रियग्रामं शनैः सम्परिभावयेत् ।
संहरेत्क्रमशश्चैनं स सम्यक्प्रशमिष्यति ॥

12.193.21

स्वयमेव मनश्चैवं पञ्चवर्गं च भारत ।
पूर्वं ध्यानपथे स्थाप्य नित्ययोगेन शाम्यति ॥

12.193.22

न तत्पुरुषकारेण न च दैवेन केनचित् ।
सुखमेष्यति तत्तस्य न भवन्ति विपत्तयः ॥

12.193.23

सुखेन तेन संयुक्तो रस्यते ध्यानकर्मणि ।
गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc