महाभारत · अध्याय 12.183
पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् ।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥
भृगुरुवाच ।
वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ ।
प्राणिनामनिलो देहान्यथा चेष्टयते बली ॥
श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् ।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टने ॥
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनो बुद्धिरहन्कारो भूतानि विषयाश्च सः ॥
एवं त्विह स सर्वत्र प्राणेन परिपाल्यते ।
कोष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥
वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मकुशला जनाः ॥
सन्धिष्वपि च सर्वेषु सन्निविष्टस्तथाऽनिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥
धातुष्वग्निस्तु विततः समानोऽग्निः समीरितः ।
रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठते ॥
अपानप्राणयोर्मध्ये प्राणापानसमाहितः ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥
आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसञ्ज्ञितम् ।
स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥
प्राणानां सन्निपाताच्च सन्निपातः प्रजायते ।
ऊष्मा सोग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥
पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ।
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाश्रिताः ॥
प्रसृता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा ।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥
एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् ।
जितक्लमासना धीरा सूर्धन्यात्मानमादधन् ॥
एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् । तस्मिन्योऽवस्थितो नित्यमग्निः स्थाल्यामिवाहितः । ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0