भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.182

12.182.1

त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा ।
आवृता यैरिमे लोका महाभूताभिसञ्ज्ञिताः ॥

12.182.2

यदाऽसृजत्सहस्राणि भूतानां स महामतिः ।
पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥
भृगुरुवाच ।

12.182.3

अमितानां महाशब्दो भूतानां याति सम्भवम् ।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥

12.182.4

चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः ।
पृथिवी चात्र सन्घातः शरीरं पाञ्चभौतिकम् ॥

12.182.5

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् ।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसञ्ज्ञिताः ॥
भरद्वाज उवाच ।

12.182.6

पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः ।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥

12.182.7

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः ॥

12.182.8

न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः ।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥

12.182.9

अद्रवत्वादनग्नित्वादभूतित्वादवायुतः ।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥
भृगुरुवाच ।

12.182.10

घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥

12.182.11

ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च ।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥

12.182.12

वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते ।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥

12.182.13

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥

12.182.14

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥

12.182.15

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् ।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥

12.182.16

वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥

12.182.17

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥

12.182.18

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥

12.182.19

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥

12.182.20

त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम् ।
इत्येतदिह सन्घातं शरीरे पृथिवीमयम् ॥

12.182.21

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च ।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥

12.182.22

श्रोत्रं घ्राणं तथाऽस्यं च हृदयं कोष्ठमेव च ।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥

12.182.23

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥

12.182.24

प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा ।
गच्छत्यपाने वाक्चैव समानने समः स्थितः ॥

12.182.25

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥

12.182.26

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् । ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः ।
शब्दं शृणोति च तदैवाकाशात्तु शरीरवान् ॥

12.182.27

गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः ।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥

12.182.28

इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥

12.182.29

ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ॥

12.182.30

रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ॥

12.182.31

मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः ॥

12.182.32

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते । ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥

12.182.33

शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा । कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः ।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥

12.182.34

शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत ।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥

12.182.35

उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च ।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते ॥

12.182.36

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥

12.182.37

षड््ज ऋषभगान्धारौ मध्यमो धैवतस्तथा ।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥

12.182.38

एष सप्तविधः प्रोक्तः शब्द आकाशसम्भवः ।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥

12.182.39

[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च । यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा ।
एतेषामेव सर्वेषां विषये सम्प्रकीर्तितः ॥

12.182.40

एवं बहुविधाकारः शब्द आकाशसम्भवः । आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥ ]

12.182.41

अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः ।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥

12.182.42

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc