भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.184

12.184.1

यदि प्राणयते वायुर्वायुरेव विचेष्टते ।
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥

12.184.2

यदूष्मभाव आग्नेयो वह्निना पच्यते यदि ।
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः ॥

12.184.3

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते ।
वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥

12.184.4

यदि वायुमयो जीवः संश्लेषो यदि वायुना ।
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः ॥

12.184.5

श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति ।
महार्णववियुक्तत्वादन्यत्सलिलभाजनम् ॥

12.184.6

यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने ।
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः ॥

12.184.7

पञ्च साधारणो ह्यस्मिञ्शरीरे जीवितं कुतः ।
तेषामन्यतरत्यागाच्चतुर्णां नास्ति सन्ग्रहः ॥

12.184.8

नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात् ।
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥

12.184.9

व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते ।
पीडितेऽन्यतमे ह्येषां सन्घातो याति पञ्चताम् ॥

12.184.10

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ।
किं वेदयति वा जीवः किं शृणोति ब्रवीति च ॥

12.184.11

एषा गौः परलोकस्थं तारयिष्यति मामिति ।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥

12.184.12

गौश्च प्रतिग्रहीता च दाता चैव समं यदा ।
इहैव विलयं यान्ति कुतस्तेषां समागमः ॥

12.184.13

विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च ।
अग्निना चोपयुक्तस्य कुतः सञ्जीवनं पुनः ॥

12.184.14

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति ॥

12.184.15

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।
मृतामृताः प्रणश्यन्ति बीजाद्वीजं प्रवर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc