भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.181

12.181.1

मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः ।
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः ॥
भृगुरुवाच ।

12.181.2

प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥

12.181.3

यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः ।
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥

12.181.4

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः ॥
भरद्वाज उवाच ।

12.181.5

कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥
भृगुरुवाच ।

12.181.6

ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे ।
लोकसम्भवसन्देहः समुत्पन्नो महात्मनाम् ॥

12.181.7

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः ।
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥

12.181.8

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।
दिव्या सरस्वती तत्र सम्बभूव नभस्तलात् ॥

12.181.9

पुराऽस्तमितनिःशब्दमाकाशमचलोपमम् ।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ ॥

12.181.10

ततः सलिलमुत्पन्नं तमसीवापरं तमः ।
तस्माच्च सलिलोत्पीडात्समजायत मारुतः ॥

12.181.11

यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते ।
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥

12.181.12

तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे ।
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान् ॥

12.181.13

स एष चरते वायुरर्णवोत्पीडसम्भवः ।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥

12.181.14

तस्मिन्वाय्वम्बुसन्घर्षे दीप्ततेजा महाबलः ।
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः ॥

12.181.15

अग्निः पवनसंयुक्तः स्वात्समुत्क्षिपते जलम् ।
सोऽग्निमारुतसंयोगाद्धनत्वमुपपद्यते ॥

12.181.16

तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः ।
स सन्घातत्वमापन्नो भूमित्वमनुगच्छति ॥

12.181.17

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc