महाभारत · अध्याय 12.180
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह ॥
ससागरः सगगनः सशैलः सबलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा ।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥
ससागरः सगगनः शशैलः सवलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः । शौचाशौचं कथं तेषां धर्माधर्मावथो कथम् ।
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
परलोकमिमं चापि सर्वं शंसितृमर्हसि ॥
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।
ब्रह्मर्पिर्ब्रह्मसन्काशः सर्वं तस्मै ततोऽब्रवीत् ॥
भृगुरुवाच ।
नारायणो जगन्मूर्तिरन्तरात्मा सनातनः ।
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः ॥
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोतरः । स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः ॥
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः ।
अनादिनिधनो देवस्तथाऽभेद्योऽदजरामरः ॥
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ।
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च ॥
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः । महान्ससर्जाहन्कारं स चापि भगवानथ ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥
आकाशादभवद्वारि सलिलादग्निमारुतौ ।
अग्निमारुतसंयोगात्ततः समभवन्मही ॥
ततस्ते गेमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥
अहन्कार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै स महातेजा य एते पञ्चधातवः ॥
शैलास्तस्यास्थिसञ्ज्ञास्तु मेदो मांसं च मेदिनी ।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।
दिवाकरश्च सोमश्च नयने तस्य विश्रुते ॥
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः ।
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः ॥
स एष भगवान्विष्णुरनन्त इति विश्रुतः ।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्माभः ॥
अहन्कारस्य यः स्रष्टा सर्वभूतोद्भवाय वै ।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥
भरद्वाज उवाच ।
गगनस्य दिशां चैव भूतलस्यानिलस्य च ।
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः ॥
भृगुरुवाच ।
अनन्तमेतदाकाशं सिद्धचारणसेवितम् ।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः ।
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः ॥
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद ॥
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयम्प्रभैः ।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।
तप्नसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः ।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥
एवमन्तं हि नभसः प्रमाणं सलिलस्य च ।
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि ॥
अग्निमारुततोयानां वर्णाः क्षितितलस्य च ।
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात् ॥
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा ॥
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत् । सिद्धानां देवतानां च यदा परिमिता गतिः ।
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ॥
नामधेयानुरूपस्य मानसस्य महात्मनः । यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः ।
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः ॥
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥
भरद्वाज उवाच ।
पुष्कराद्यदि सम्भूतो ज्येष्ठं भवति पुष्करम् ।
ब्रह्माणं पूर्वजं चाह भवान्सन्देह एव मे ॥
भृगुरुवाच ।
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥
कर्णिकां तस्य पद्मस्य मेरुर्गगमुच्छ्रितः । तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः ।
मानसांश्च तथा देवान्भूतानि विविधानि च ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0