भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.179

12.179.1

यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.179.2

यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम । दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु ॥

12.179.3

आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते ॥

12.179.4

दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः ॥

12.179.5

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणाः ॥

12.179.6

व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥

12.179.7

प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥

12.179.8

पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥

12.179.9

सुशीघ्रमपि धावन्तं विधानमनुधावति ।
शेते सह शयानेन येनयेन यथाकृतम् ॥

12.179.10

उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।
करोति कुर्वतः कर्म छायेवाऽनुविधीयते ॥

12.179.11

येनयेन यथा यद्यत्पुरा कर्म समार्जितम् ।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥

12.179.12

स्वकर्मफलनिक्षेपं विधानपरिरक्षितम् ।
भूतग्राममिमं कालः समन्तात्परिकर्षति ॥

12.179.13

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥

12.179.14

सम्मानश्चावमानश्च लाभालाभौ क्षयोदयौ ।
प्रवृत्तानि विवर्तन्ते विद्यानान्ते पुनःपुनः ॥

12.179.15

आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥

12.179.16

बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यान्तस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥

12.179.17

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥

12.179.18

सन्क्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा ।
दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा ॥

12.179.19

तपसा तप्यते देहस्तपसा विन्दते महत् ॥ उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ॥

12.179.20

दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः ॥

12.179.21

शकुनीनामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा धर्मविदां गतिः ॥

12.179.22

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc