महाभारत · अध्याय 12.162
आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
नृशंसान्न विजानामि तेषां कर्म च भारत ॥
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत ।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥
भीष्म उवाच ।
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम् आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च ॥
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
असम्भोगी च मानी च तथा सङ्गी विकत्थनः ॥
सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
वर्गप्रशंसीं सततमाश्रमद्वेपसन्करी ॥
हिंसाविकारी सततमविशेषगुणागुणः ।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।
आत्मशीलोपमानेन न विश्वसिति कस्यचित् ॥
परेषां यत्र दोपः स्यात्तद्गुह्यं सम्प्रकाशयेत् ।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत् ॥
तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
दत्त्वाऽपि च धनं काले सन्तपत्युपकारिणे ॥
भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
सदा विवर्जनीयो हि पुरुषेण बुभूषता ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0