भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.163

12.163.1

कृतार्थी यक्ष्यमाणश्च सर्ववेदान्तगश्च यः ।
आचार्यपितृकायार्थं स्वाध्यायार्थमथापि च ॥

12.163.2

एते वै साधवो दृष्टा ब्राह्मणाः धर्मभिक्षवः ।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या च भारत ॥

12.163.3

अन्यत्र दक्षिणादानं देयं भरतसत्तम ।
अन्येभ्योऽपि वहिर्वेदि न कृतान्नं विधीयते ॥

12.163.4

सर्वरत्नानि राजा हि यथार्हं प्रतिपादयेत् ।
ब्राह्मणायैव यज्ञाश्च सहान्नाः सहदक्षिणाः ॥

12.163.5

अन्येभ्यो विमलाचारा यजन्ते गुणतः सदा । यस्य त्रैवार्पिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
अधिकं चापि विद्येत स सोमं पातुमर्हति ॥

12.163.6

यज्ञश्चेत्प्रतिरुद्धः स्यादंशेनैकेन यज्वनः ।
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥

12.163.7

यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः ।
कुटुम्बात्तस्य तद्वित्तं यज्ञार्थं पार्थिवो हरेत् ॥

12.163.8

आहरेद्द्रुह्यतः किञ्चित्कामं शूद्रस्य वेश्मनि ।
न हि वेश्मनि शूद्रस्य किञ्चिदस्ति परिग्रहः ॥

12.163.9

योऽनाहिताग्निः शतगुरयज्वा त्त सहस्रगुः ।
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥

12.163.10

अदातृभ्यो हरेद्वित्तं विख्याप्य नृपतिः सदा ।
तथैवाचरतो धर्मो नृपतेः स्यादथाखिलः ॥

12.163.11

तथैव सप्तमे भक्ते भक्तानि पडनश्नतः ।
अश्वस्तनविभागेन हर्तव्यं हीनकर्मणः ॥

12.163.12

खलात्क्षेत्रात्तथागाराद्यतो वाऽप्युपपद्यते । आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोपि वा ।
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥

12.163.13

क्षत्रियस्य तु बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ।
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ॥

12.163.14

अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ।

12.163.15

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
अविकल्पः पुरा धर्मो धर्मवादैस्तु केवलः ॥

12.163.16

विश्वैर्देवैश्च साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
आपत्सु गरणाद्भीतैर्लिङ्गः प्रतिनिधीकृतः ॥

12.163.17

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
स नाप्नोति फलं तस्य प्रेत्य चेह च दुर्मतिः ॥

12.163.18

न ब्राह्मणो वेदयीत किञ्चिद्राजनि धर्मवित् । अविद्यावेदनाद्विद्यात्स्ववीर्यं वीर्यवत्तरम् ।
तस्माद्राज्ञः सदा तेजो दुःसहं ब्रह्मवादिनाम् ॥

12.163.19

मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ।
तस्मिन्नाकुशलं ब्रूयान्न शुष्कामीरयेद्गिरम् ॥

12.163.20

क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
धनैर्वैश्यश्च शुद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥

12.163.21

नैव कन्या न युवतिर्नामन्त्रज्ञो न बालिशः ।
परिवेष्टाऽग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ॥

12.163.22

नरके निपतन्त्येते जुह्वानाः सवनस्य तत् ।
तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥

12.163.23

प्राजापत्यमदत्त्वा च अग्न्याधेयस्य दक्षिणाम् ।
अनाहिताग्निरिति सं प्रोच्यते धर्मदर्शिभिः ॥

12.163.24

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथञ्चन ॥

12.163.25

प्रजाः पंशूश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।
इन्द्रियाणि यशः कीर्तिभायुश्चाप्यवकृन्तति ॥

12.163.26

उदक्यामासते ये च द्विजाः केचिदनग्नयः ।
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रकर्मिणः ॥

12.163.27

उदपानोदके ग्रामे ब्राह्मणो वृपलीयतिः ।
अपित्वा द्वादश समाः शूद्रकर्मैव गच्छति ॥

12.163.28

अभार्यी शयने विभ्रच्छूद्रं वृद्धं च वै द्विजः । अब्राह्मणं भन्यमानस्तृणेष्वासीत पृष्ठतः ।
तथा संशुध्यते राजञ्शृणु चात्र वचो मम ॥

12.163.29

यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।
स्थानासनाभ्यां विहरन्वती स त्रिभिर्वर्षैः शमयेदात्मपापम् ॥

12.163.30

न नर्मयुक्तमतृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥

12.163.31

श्रद्दधानः शुभां विद्यां हीनादपि समाप्नुयात् ।
सुवर्णमपि चामेध्यादाददीताविचारयन् ॥

12.163.32

स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् ।
अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्मतः ॥

12.163.33

गोब्राह्मणहितार्थं च वर्णानां सन्करेषु च ।
वैश्यो गृह्णीत शस्त्राणि परित्राणार्थमात्मनः ॥

12.163.34

सुरापो ब्रह्महा चैव गुरुतल्पगतस्तथा ।
अचिरेण महाराज पतितो वै भवत्युत ॥

12.163.35

सुवर्णहरणं स्तैन्यं विप्रस्वं चेति पातकम् ।
विहारो मद्यपानं च अगम्यागमनं तथा ॥

12.163.36

पतितैः सम्प्रयोगश्च ब्राह्मणीयोनितस्तथा ।
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा ॥

12.163.37

संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्दानान्न तु यानासनाशनात् ॥

12.163.38

एतानि हित्वातोऽन्यानि निर्देश्यानीति धारणा ।
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत् ॥

12.163.39

अनुत्तीर्य न होतव्यं प्रेतकर्मण्युपाश्रिते ।
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणम् ॥

12.163.40

अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः ।
प्रायश्चित्तान्यकुर्वाणा नैते कुर्वन्ति संविदम् ॥

12.163.41

अधर्मकारी धर्मेण तपसा हन्ति किल्विषम् ।
ब्राह्मणायावगुर्येत स्पृष्टे गुरुतरं भवेत् ॥

12.163.42

अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात् । त्रिभागं ब्रह्महत्यायाः कन्यां प्राप्नोति दुष्यति ।
यस्तु दूषयिता तस्याः शेषं प्राप्नोति पाप्मनः ॥

12.163.43

ब्राह्मणानवगर्ह्येह स्पृष्ट्वा गुरुतरं भवेत् ।
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति ॥

12.163.44

सहस्रं चैव वर्षाणां निपत्य नरकं वसेत् ।
तस्मान्नैवावगुर्याद्धि नैव जातु निपातयेत् ॥

12.163.45

शोणितं यावतः पांसून्सन्गृह्णीयाद्द्विजक्षतात् ।
तावतीः स समा राजन्नरके प्रतिपद्यते ॥

12.163.46

भ्रूणहाऽहवमध्ये तु शुध्यते शस्त्रपाततः ।
आत्मानं जुहुयादग्नौ समिद्धे तेन शुध्यते ॥

12.163.47

सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते ॥

12.163.48

तया स काये निर्दग्धे मृत्युं वा प्राप्य शुध्यति ।
लोकांश्च लभते विप्रो नान्यथा लभते हि सः ॥

12.163.49

गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः ।
शिलां ज्वलन्तीमासाद्य मृत्युना सोभिशुध्यति ॥

12.163.50

अधवा शिश्नवृषणावादायाञ्जलिना स्वयम् ।
नैरृतीं दिशमास्थाय निपतेत्सत्वजिह्मगः ॥

12.163.51

ब्राह्मणार्थेऽपि वा प्राणान्सन्त्यजंस्तेन शुध्यति ॥

12.163.52

अश्वमेधेन वाऽपीष्ट्वा अथवा गोसवेन वा ।
मरुत्सोमेन वा सम्यगिह प्रेत्य च पूज्यते ॥

12.163.53

तथैव द्वादशसमाः कापोतं धर्ममाचरेत् ।
एककालं चरेद्भैक्षं स्वकर्मोदाहरञ्जने ॥

12.163.54

एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत् ।
एवं गर्भमविज्ञातमात्रेयीं वा निपातयेत् ॥

12.163.55

द्विगुणा ब्रह्महत्या वै आत्रेयीहिंसने भवेत् ।
सुरापी नियताहारो ब्रह्मचारी क्षपाचरः ॥

12.163.56

ऊर्ध्वं त्रिभ्योऽपि वर्षेभ्यो यजेताग्निष्टुता परम् ।
ऋषभैकसहस्रं वा गा दत्त्वा शौचमाप्नुयात् ॥

12.163.57

वैश्यं दत्त्वा तु वर्षे द्वे ऋषभैकशतं च गाः ।
शूद्रं हत्वाऽब्दमेवैकमृषभं च शतं च गाः ॥

12.163.58

श्ववराहखरान्हत्वा शौद्रमेव व्रतं चरेत् ।
मार्जारचाषमण्डूकान्काकं व्यालं च मूषिकम् ॥

12.163.59

उक्तः पशुवधे दोषो राजन्प्राणिनिपातनात् । अनस्थिकेषु गोमूत्रं पानमेकं प्रचक्षते ।
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः ॥

12.163.60

तल्पे वाऽन्यस्य चौर्ये च पृथक् संवत्सरं चरेत् ।
त्रीणि श्रोत्रियभार्यायां परदारे च द्वे स्मृते ॥

12.163.61

काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत् ।
स्थानासनाभ्यां विहरेत्रिरह्नाऽभ्युपयन्नपः ॥

12.163.62

ऐवमेव चरन्राजंस्तस्मात्पापात्प्रमुच्यते । एवमेव निराकर्ता यश्चाग्नीनपविध्यति ॥

12.163.63

त्यजत्यकारणे यश्च पितरं मातरं गुरुम् ।
पतितः स्यात्स कौरव्य यथा धर्मेषु निश्चयः ॥

12.163.64

ग्रासाच्छादनयानं च शयनं ह्यासनं तथा । ब्रह्मचारी द्विजेभ्यश्च दत्त्वा पापात्प्रमुच्यते ॥

12.163.65

भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः । यत्पुंसः परदारेषु तदेनां चारयेद्व्रतम् ।

12.163.66

श्रेयांसं शयने हित्वा पापीयांसं समृच्छति ।
श्वभिस्तमर्दयेद्राजा संस्थाने बहुविस्तरे ॥

12.163.67

पुमांसं बन्धयेत्पाशैः शयने तप्त आयसे ।
अप्यादधीत दारूणि तत्र दह्येत पापकृत ॥

12.163.68

एव दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे ।
संवत्सारोऽभिशस्तस्य दुष्टस्य द्विगुणो भवेत् ॥

12.163.69

द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः ।
कुमारः पञ्चवर्षाणि चरेद्भैक्षं मुनिव्रतः ॥

12.163.70

परिवित्तिः परिवेत्ता या चैव परिविद्यते ।
पाणिग्राहस्त्वधर्मेण सर्वे ते पतिताः स्मृताः ॥

12.163.71

चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत् ।
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये ॥

12.163.72

परिवेत्ता प्रयच्छेता तां स्नुषां परिवित्तये । ज्येष्ठेन त्वभ्यनुज्ञातो यवीयाप्यनन्तरम् ।
एनसो मोक्षमाप्नोति तौ च सा चैव धर्मतः ॥

12.163.73

अमानुषीषु गोवर्जमनादिष्टं न दुष्यति ।
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः ॥

12.163.74

परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम् ।
चरेत्सप्तगृहान्भैक्षं स्वकर्म परिकीर्तयन् ॥

12.163.75

तथैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति ।
चरेत्संवत्सरं चापि तद्व्रतं येन कृन्तति ॥

12.163.76

भवेत्तु मानुषेष्वेवं प्रायश्चिमनुत्तमम् ।
दानं वा दानशक्तेषु सवेर्मतत्प्रकल्पयेत् ॥

12.163.77

अनास्तिकेषु गोमात्रं दानमेकं प्रचक्षते ।
श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च ॥

12.163.78

मांसं मूत्रं पुरीषं च प्राश्य संस्कारमर्हति ।
ब्राह्मणस्तु सुरापस्य गन्धमादाय सोमपाः ॥

12.163.79

अपख्यहं पिबेदुष्णाः संयतात्मा जितेन्द्रियः ।
अपः पीत्वा तु स पुनर्वायुभक्षो भवेन्त्र्यहम् ॥

12.163.80

एवमेतत्समुद्दिष्टं प्रायश्चित्तिषेवणम् ।
ब्राह्मणस्य विशेषेण यदज्ञानेन जायते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc