महाभारत · अध्याय 12.161
यतः प्रभवति क्रोधः कामो वा भरतर्षभ ।
शोकमोहौ विधित्सा च परासुत्वं तथा मदः ॥
लोभो मात्सर्यमीर्ष्या च कुत्साऽसूया कृपा भयम् ।
एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥
भीष्म उवाच ।
त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः ।
उपासते महाराज समन्तात्पुरुषानिह ॥
एते प्रमत्तं पुरुषमप्रमत्तास्तुदन्ति च ।
वृका इव विलुम्पन्ति दृष्ट्वेव पुरुषेतरान् ॥
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।
इति मर्त्यो विजानीयात्सततं पुरुषर्षभ ॥
एतेषामुदयं स्थानं क्षयं च पृथिवीपते । हन्त ते कथयिष्यामि क्रोधस्योत्पत्तिमादितः ।
यथातत्त्वं क्षितिपते तन्मे निगदतः शृणु ॥
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते ।
क्षमया तिष्ठते राजन्क्षमया विनिवर्तते ॥
सन्कल्पाज्जायते कामः सेव्यमानो विवर्धते ।
यदा प्राज्ञो विरमते तदा सद्यः प्रणश्यति ॥
[परामूया क्रोधलोभावन्तरा प्रतिमुच्यते । दयया सर्वभूतानां निर्वेदाद्विनिवर्तते.]
अवद्यदर्शनादेति तत्त्वज्ञानाच्च नश्यति ॥
अज्ञानप्रभवो मोहः पापाभ्यासात्प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥
विरुद्धानीह शास्त्राणि ये पश्यन्ति कुरूद्वह ।
विधित्सा जायते तेषां तत्त्वज्ञानान्निवर्तते ॥
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः ।
यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते ।
दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥
सत्यत्यागात्तु मात्सर्यमहितानां च सेवया ।
एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥
कुलाञ्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥
ईर्ष्या कामात्प्रभवति संहर्षाच्चैव जायते ।
इतरेषां तु सत्वानां प्रज्ञया सा प्रणश्यति ॥
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसम्मतैः ।
कुत्सा सञ्जायते राजँल्लोकान्प्रेक्ष्याभिशाम्यति ॥
प्रतिकर्तुं न शक्ता ये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद्विनिवर्तते ॥
कृपणान्सततं दृष्ट्वा ततः सञ्जायते कृपा ।
धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥
अज्ञानप्रभवो लोभो भूतानां दृश्यते सदा ।
अस्थिरत्वं च भोगानां दृष्ट्वा ज्ञात्वा निवर्तते ॥
एतान्येव जितान्याहुः प्रशान्तेन त्रयोदश । एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ।
त्वया सत्यार्थिना नित्यं विजिता जेष्यता चते ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0