भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.158

12.158.1

स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः ।
धर्मकामस्य धर्मात्मन्किन्नु श्रेय इहोच्यते ॥

12.158.2

बहुधा दर्शने लोके श्रेयो यदिह मन्यसे ।
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥

12.158.3

महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥

12.158.4

धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः ।
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥
भीष्म उवाच ।

12.158.5

हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि ।
पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि ॥

12.158.6

धर्मस्य विधयो नैके तेते प्रोक्ता महर्षिभिः ।
स्वंस्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥

12.158.7

दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥

12.158.8

नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।
दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥

12.158.9

दमस्तेजो वर्धयति पवित्रं च दमः परम् ।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥

12.158.10

दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम् ।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥

12.158.11

प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम् ।
दमेन हि सदा युक्तो महान्तं धर्ममश्नुते ॥

12.158.12

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥

12.158.13

अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते ।
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥

12.158.14

आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥

12.158.15

क्षमा धृतिरार्हेसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥

12.158.16

अकार्पण्यमसंरम्भः सन्तोषः प्रियवादिता ।
अविहसाऽनसूया चाप्येषां समुदयो दमः ॥

12.158.17

गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् ।
जनवादमृषावादस्तुतिनिन्दाविसर्जनम् ॥

12.158.18

कामं क्राधं च लोभं च दर्पं स्तम्भं विकत्थनम् ।
रोषमीर्ष्यावमानं च नैव दान्तो निषेवते ॥

12.158.19

अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः ।
समुद्रकल्पः स नरो न कथञ्चन पूर्यते ॥

12.158.20

अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् ।
पूर्वसम्बन्धिसंयोगं नैतद्दान्तो निषेवते ॥

12.158.21

सर्वा ग्राम्यास्तथाऽरण्या याश्च लोके प्रवृत्तयः ।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥

12.158.22

मैत्रोऽथ शीलसम्पन्नः प्रसन्नात्मात्मविच्च यः ।
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥

12.158.23

सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽत्मविद्वुधः ।
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥

12.158.24

कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥

12.158.25

निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः ।
कालाकाङ्गी चरन्नेवं ब्रह्मभूयाय कल्पते ॥

12.158.26

अभयं यस्य भूतेभ्यो भूतानामभयं यतः ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥

12.158.27

अवाचिनोति कर्माणि न च सम्प्रचिनोति ह ।
समः सर्वेषु भूतेषु मैत्रायणगतिं चरेत् ॥

12.158.28

शकुनीनामिवाकाशे मत्स्यानाम्मिव चोदके ।
यथा गतिर्न दृश्येत तथा तस्य स संशयः ॥

12.158.29

गृहानुत्सृज्य यो राज्मोक्षमेवाभिपद्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥

12.158.30

सन्न्यस्य सर्वकर्माणि सन्न्यस्य विधिवत्तपः ।
सन्न्यस्य विविधा विद्याः सर्वं सन्न्यस्य चैव ह ॥

12.158.31

कामे शुचिरनावृत्तः प्रसन्नात्माऽत्मविच्छुचिः ।
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥

12.158.32

यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् ।
गुहायां निहितं नित्यं तद्दमेनाभिगम्यते ॥

12.158.33

ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥

12.158.34

एक एव दमे दोषो द्वितीयो नोपपद्यते ।
यदेनं दमसंयुक्तमशक्तं मन्यते जनः ॥

12.158.35

एकोऽस्य सुमहाप्राज्ञ दोषः स्यात्सुमहान्गुणः ।
क्षमया विपुला लोका दुर्लभा हि सहिष्णुता ॥

12.158.36

दान्तस्य किमरण्येन तथाऽदान्तस्य भारत ।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥
वैशम्पायन उवाच ।

12.158.37

एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।
अमृतेनेव सन्तृप्तः प्रहृष्टः समपद्यत ॥

12.158.38

पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।
ततः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वहः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc