महाभारत · अध्याय 12.159
सर्वमेतत्तपोमूलं कवयः परिचक्षते ।
न ह्यतप्ततपा मूढः क्रियाफलमवाप्नुते ॥
प्रजापतिरिदं सर्वं तपसैवासृजत्प्रभुः ।
तथैव वेदानृपयस्तपसा प्रतिपेदिरे ॥
तपसैव ससर्जान्नं फलमूलानि यानि च ।
त्रीँल्लोकांस्तपसा सिद्धाः पश्यन्ति सुसमाहिताः ॥
औषधान्यगदादीनि तिस्त्रो विद्याश्च संस्कृताः ।
तषसैव हि सिद्ध्यन्ति तपोमूलं हि साधनम् ॥
यद्दुरापं दुराराध्यं दुराधर्षं दुरुत्सहम् । तत्सर्वं तपसा शक्यं तपो हि दुरतिक्रमम् ।
ऐश्वर्यमृषयः प्राप्तास्तपसैव न संशयः ॥
सुरापोऽसम्मतादायी भ्रूणहा गुरुतल्पगः ।
तपसैव सुतप्तेन नरः पापात्प्रमुच्यते ॥
तपसो बहुरूपस्य तैस्तैर्द्वारैः प्रवर्ततः ।
निवृत्त्या वर्तमानस्य तपो नानशनात्परम् ॥
अहिंसा सत्यवचनं दानमिन्द्रियनिग्रहः ।
एतेभ्यो हि महाराज तपो नानशनात्परम् ॥
न दुष्करतरं दानान्नाति मातरमाश्रमः ।
त्रैविद्येभ्यः परं नास्ति सन्न्यासान्नापरं तपः ॥
इन्द्रियाणीह रक्षन्ति विप्रर्षिपितृदेवताः ।
तस्मादर्थे च धर्मे च तपो नानशनात्परम् ॥
ऋषयः पितरो देवा मनुष्या मृगपक्षिणः ।
यानि चान्यानि भूतानि स्यावराणि चराणि च ॥
तपः परायणाः सर्वे सिध्यन्ति तपसा च ते ।
इत्येवं तपसा देवा महत्त्वं प्रतिपेदिरे ॥
इमानीष्टविभागानि फलानि तपसः सदा ।
तपसा शक्यते प्राप्नुं देवत्वमपि निश्चयः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0