भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.157

12.157.1

अनर्थानामधिष्ठानमुक्तो लोभः पितामह ।
अज्ञानमपि कौरव्य श्रोतुमिच्छामि तत्त्वतः ॥
भीष्म उवाच ।

12.157.2

करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् ।
द्विषते साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥

12.157.3

अज्ञानान्निरयं याति तथा ज्ञानेन दुर्गतिम् ।
अज्ञानात्क्लेशमाप्नोति तथाऽपत्सु निमज्जति ॥
युधिष्ठिर उवाच ।

12.157.4

प्रजानामप्रवृत्तिं च ज्ञानवृद्धिक्षयोदयान् ।
मूलं स्थानं गतिं कालं कारणं हेतुमेव च ॥

12.157.5

श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव ।
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते ॥
भीष्म उवाच ।

12.157.6

रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता ।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च ॥

12.157.7

इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता ।
अज्ञानमेन्निर्दिष्टं पापानां चैव याः क्रियाः ॥

12.157.8

एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि ।
विस्तरेण महाराज शृणु तच्च विशेषतः ॥

12.157.9

उभावेतौ समफलौ समदोषौ च भारत ।
अज्ञानं चातिलोभश्चाप्येवं जानीहि पार्थिव ॥

12.157.10

लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ।
स्थाने स्थानं क्षयेत्क्षीणमुपैति विविधां गतिम् ॥

12.157.11

मूलं लोभस्य मोहो वै कालात्मगतिरेव च । [छिन्ने भिन्ने तथा लोभे कारणं काल एव च ॥ ]

12.157.12

तस्याज्ञानाद्धि लोभो हि कामात्मा गतिरेव च ।
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥

12.157.13

जनको युवनाश्वश्च पृषदश्वः प्रसेनजित् । लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये नराधिपाः ।
छिन्ने छिन्ने तथा लोभे दिवं प्राप्ता जनाधिपाः ॥

12.157.14

प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना ।
त्यक्त्वा लोभं सुखी लोके प्रेत्य चेह च मोदते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc