भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.156

12.156.1

पापस्य यदधिष्ठानं यतः पापं प्रवर्तते ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥
भीष्म उवाच ।

12.156.2

पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप ।
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते ॥

12.156.3

अतः पापमधर्मश्च तथा दुःखमनुत्तमम् ।
निकृत्या मूलमेतद्धि येन पापकृतो जनाः ॥

12.156.4

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते ।
लोभान्मोहश्च माया च मानस्तम्भः परासुता ॥

12.156.5

अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसन्क्षयः ।
अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते ॥

12.156.6

अत्यागश्च कुतर्कश्च विकर्मसु च याः क्रियः ।
कुलविद्यामदश्चैव रूपैश्वर्यमदस्तथा ॥

12.156.7

सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वसत्कृतिः ।
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम् ॥

12.156.8

हरणं परवित्तानां परदाराभिमर्शनम् ।
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च ॥

12.156.9

उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः ।
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुर्जयः ॥

12.156.10

रसवेगश्च दुर्वार्यः श्रोत्रवेगश्च दुःसह । कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता ।
साहसानां च सर्वेषामकार्याणां क्रियास्तथा ॥

12.156.11

आतौ बाल्ये च कौमारे यौवने चापि मानवाः ।
न त्यजन्त्यात्मकर्मैकं यन्न जीर्यति जीर्यतः ॥

12.156.12

यो न पूरयितुं शक्यो लोभः प्रीत्या कथञ्चन ।
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः ॥

12.156.13

न प्रहृष्यति यो लोभैः कामैर्यश्च न तृप्यति ।
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः ॥

12.156.14

ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा ।
स लोभः सह मोहेन विजेतव्यो जितात्मना ॥

12.156.15

दम्भो द्रोहश्च निन्दा च पैशून्यं मत्सरस्तथा ।
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम् ॥

12.156.16

सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः ॥

12.156.17

द्वेपक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः ।
अन्तःक्षुरा वाङ्भधुराः कृपाश्छन्नास्तृणैरिव ॥

12.156.18

धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत् । कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः ।
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः ॥

12.156.19

धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः ।
याया विक्रियते संस्था ततः साऽपि प्रपद्यते ॥

12.156.20

दर्पः बोधो मदः स्वप्नो हर्षः शोकोऽभिमानिता ।
एत हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु ॥

12.156.21

एताना टान्बुद्धस्व नित्यं लोभसमन्वितान् ।
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान् ॥

12.156.22

येष्वावृत्तिभयं नास्ति परलोकभयं न च ।
नामिपेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च ॥

12.156.23

शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः ।
सुखं दुःखं समं येषां सत्यं येषां परायणम् ॥

12.156.24

दातारो न ग्रहीतारो दयावन्तस्नथैव च ।
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च ॥

12.156.25

सर्वोपकारिणो वीराः सर्वधर्मानुपालकाः ।
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत ॥

12.156.26

न ते चालयितुं शक्या धर्मव्याहारकारिणः ।
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ॥

12.156.27

न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः ।
ते सेव्याः साधुभिर्नित्यमसाधूंश्च विवर्जयेत् ॥

12.156.28

कामक्रोधव्यपेता ये निर्ममा निरहन्कृताः ।
सुव्रताः स्थिरमर्यादास्तानुपास्व च पृच्छ च ॥

12.156.29

न वागर्थं यशोर्थं वा धर्मस्तेपां युधिष्ठिर ॥
अवश्यं कार्य इत्येव शरीरस्य क्रियास्तथा ॥

12.156.30

त भयं क्रोधचापल्ये न शोकस्तेषु विद्यते ।
न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदास्थिताः ॥

12.156.31

येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे स्थिताः ।
तेषु कौन्तेय रज्येथा येषां न भ्रश्यते पुनः ॥

12.156.32

ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च ।
निर्ममा निरहन्काराः सत्वस्थाः समदर्शिनः ॥

12.156.33

लाभालाभौ सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च ।
समानि येषां स्थिरविक्रमाणां बुभुत्सतां सत्यपथे स्थितानाम् ॥

12.156.34

धर्मप्रियांस्तान्सुमहानुभावान् दान्तोऽप्रमत्तश्च समर्चयेथाः ।
दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभे वाक्प्रलापास्तथाऽन्ये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc