भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.155

12.155.1

एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः ।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥
नारद उवाच ।

12.155.2

हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥

12.155.3

बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः ।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥

12.155.4

जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम् ॥
भीष्म उवाच ।

12.155.5

एतत्तु वचनं श्रुत्वा नारदस्य समीरणः ।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥
वायुरुवाच ।

12.155.6

शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम् ।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥

12.155.7

नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम् ।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥

12.155.8

तस्य विश्रमणादेव प्रसादौ मत्कृतस्तव ।
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम् ॥

12.155.9

यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा ।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥
भीष्म उवाच ।

12.155.10

एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव ।
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥

12.155.11

मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि । न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः ।
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव ॥

12.155.12

ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ।
प्राणमात्रबला ये वै नैव ते बलिनो मताः ॥

12.155.13

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ।
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥

12.155.14

अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम् ।
पश्यमानस्तदात्मानमसमं मातरिश्वना ॥

12.155.15

नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ।
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥

12.155.16

मारुतो बल्यान्नित्यं यथा वै नारदोऽब्रवीत् ।
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥

12.155.17

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः ।
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात् ॥

12.155.18

यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ।
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥

12.155.19

ते तु बाला न जानन्ति यथा नैतान्समीरणः ।
समीरयेत सन्क्रुद्धो यथा जानाम्यहं तथा ॥
भीष्म उवाच ।

12.155.20

ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा ।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥

12.155.21

स परित्यज्य शाखाश्च पत्राणि कुसुमानि च ।
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः ॥

12.155.22

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः ॥

12.155.23

तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः ।
उवाच वाक्यं स्ययमान एवं मुदायुतः शाल्मलिं रुग्णशाखम् ॥
वायुरुवाच ।

12.155.24

अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुपा ।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्पणम् ॥

12.155.25

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः ।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः ॥
भीष्म उवाच ।

12.155.26

एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा ।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत् ॥

12.155.27

एवं हि राजशार्दूल दुर्बलः सन्वलीयसा ।
वैरमासञ्जते बालस्तप्यते शाल्मलिर्यथा ॥

12.155.28

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा ॥

12.155.29

न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥

12.155.30

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।
बुद्धिर्वुद्धिमतो याति तूलष्विव हुताशनः ॥

12.155.31

न हि बुद्ध्या समं किञ्चिद्विद्यते पुरुषे नृप ।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन ॥

12.155.32

तस्मात्क्षमेत बालाय जडान्धवधिराय च ।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥

12.155.33

अक्षौहिण्यो दशैका च सप्त चैव महाद्युते ।
बलेन न समा राजन्नर्जुनस्य महात्मनः ॥

12.155.34

निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।
चरता बलमास्थाय पाकशासनिना मृधे ॥

12.155.35

उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत ।
विस्तरेण महाराज किं भूयः प्रव्रवीमि ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc