भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.145

12.145.1

सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥

12.145.2

तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम् ॥

12.145.3

उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते ।
सताम्पश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥

12.145.4

तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥

12.145.5

अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥

12.145.6

शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥

12.145.7

पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥

12.145.8

तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥

12.145.9

तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मां शीतं सन्त्राणं हि विधीयताम् ॥

12.145.10

एवमुक्तस्तनः पक्षी पर्णान्यास्तीर्य भूतले ।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥

12.145.11

स---वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत् ।
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥

12.145.12

स--प्तं महत्कृत्वा तमाह शरणागतम् ।
----- सुविस्रब्धः स्वगात्राण्यकुतोभयः ॥

12.145.13

-- तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निप्रत्यागतप्राणस्ततः प्राह विहन्गमम् ॥

12.145.14

हर्षेण महताऽविष्टो वाक्यं व्याकुललोचनः ।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा ॥

12.145.15

दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहन्गमः ॥

12.145.16

न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥

12.145.17

सञ्चयो नास्ति चास्माकं मुनीनामिव कानने ।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥

12.145.18

कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा ।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥

12.145.19

मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातिनम् ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥

12.145.20

इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम् ।
हर्षेण महताऽविष्टः कपोतः पुनरब्रबीत् ॥

12.145.21

ऋषीणां देवतानां च पितृणां च महात्मनाम् ।
युतः पूर्वं मया धर्मो महानतिथिपूजने ॥

12.145.22

कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रबीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥

12.145.23

ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव ।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ॥

12.145.24

अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम् ।
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥

12.145.25

अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मः सुमहान्धोरो भविष्यति न संशयः ॥

12.145.26

एवं बहुविधं भूरि विललाप स लुब्धकः ।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽगतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc