भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.144

12.144.1

अथ वृक्षस्य शाखायां विहन्गः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥

12.144.2

तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥

12.144.3

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।
किन्नु तत्कारणं येन साऽद्यापि न निवर्तते ॥

12.144.4

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ॥ तया विरहितं हीदं शून्यमद्य गृहं मम ।

12.144.5

पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः ।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ॥

12.144.6

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥

12.144.7

यदि सा रक्तेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥

12.144.8

न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता ।
नातिष्ठत्युपतिष्ठेन शेते च शयिते मयि ॥

12.144.9

हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता ।
प्रोपिते दीनवदना क्रुद्धे च प्रियवादिनी ॥

12.144.10

पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी ।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥

12.144.11

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ॥

12.144.12

वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् ।
प्रासादोपि तया हीनः कान्तार इति निश्चितम् ॥

12.144.13

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी ।
विदेशगमने चास्य सैव विश्वासकारिका ॥

12.144.14

भार्या हि परमो ह्यर्थः पुरुषस्येह पट्यते ।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥

12.144.15

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥

12.144.16

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसन्ग्रहे ॥

12.144.17

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥
भीष्म उवाच ।

12.144.18

एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा ।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम् ॥
कपोत्युवाच ।

12.144.19

अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः ।
असतो वा सतो वाऽपि गुणानेवं प्रभाषते ॥

12.144.20

सा हि स्त्रीत्यवगन्तव्या यस्य भर्ता तु तुष्यति । तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम् ॥

12.144.21

दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता ।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ॥

12.144.22

इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत् ॥

12.144.23

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा ।
शरणागतसन्त्राता भव कान्त विशेषतः ॥

12.144.24

एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥

12.144.25

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥

12.144.26

अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।
सा न्याय्याऽत्मवता नित्यं त्वद्विधेनानुवर्तितुं ॥

12.144.27

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम् ॥

12.144.28

स त्वं सन्तानवानद्य पुत्रवानपि च द्विज । त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य ।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥

12.144.29

शरीरे मा च सन्तापं कुर्वीथास्त्वं विहगम्म ।
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि ॥

12.144.30

इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी ।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc