भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.146

12.146.1

ततः स लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः ।
कपोतमग्निपतितं वाक्यं पुनरुवाच ह ॥

12.146.2

किमीदृशं नृशंसेन मया कृतमबुद्धिना । भविष्यति हि मे नित्यं पातकं भुवि जीवतः ।
स विनिन्दंस्तथाऽत्मानं पुनः पुनरुवाच ह ॥

12.146.3

धिङ्भामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् ।
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः ॥

12.146.4

नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः ।
दत्तः स्वमांसं दहता कपोतेन महात्मना ॥

12.146.5

सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च ।
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा ॥

12.146.6

अद्यप्रभुति देहं स्वं सर्वभोगैर्विवर्जितम् ।
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्महं तथा ॥

12.146.7

क्षुत्पिपासातपसहः कृशो ध्रमनिसन्ततः ।
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥

12.146.8

अहो देहप्रदानेन दर्शिताऽतिथिपूजना ।
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥

12.146.9

दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे ।
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ॥

12.146.10

महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥

12.146.11

ततो यष्टिं शलाकां च धारकं पञ्जरं तथा ।
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc