महाभारत · अध्याय 12.143
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणागतं पालयतो यो धर्मस्तं ब्रवीहि मे ॥
भीष्म उवाच ।
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैनं प्रश्नं भरतसत्तम ॥
शिबिप्रभृतयो राजन्राजानः शरणं गतान् ।
परिपाल्य महात्मानः संसिद्धिं परमां गताः ॥
श्रूयते च कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥
युधिष्ठिर उवाच ।
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसं भोजितः कां च गतिं लेभे स भारत ॥
भीष्म उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण वै ॥
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतः पुरुषर्षभ ॥
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इमां यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥
उशनोवाच ।
धर्मिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन्गदतो मे महाभुजः ॥
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसम्मितः ।
चचार पृथिवीपाल घोरः शकुनिलुब्धकः ॥
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥
नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवाः ।
बान्धवैः सम्परित्यक्तस्तेन रौद्रेण कर्मणा ॥
नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः ।
आत्मानं यो न सन्धत्ते सोन्यस्य स्यात्कथं हितः ॥
ये नृशंसा दुरात्मानः प्राणिप्राणहरा नराः ।
उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥
स वै क्षारकमादाय वने हत्वा च पक्षिणः ।
चकार विक्रयं तेषां पतङ्गानां जनाधिपः ॥
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥
ततः कदाचित्तस्याथ वनस्थस्य समन्ततः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः ॥
मेघसन्कुलमाकाशं विद्युन्मण्डलमण्डितम् ।
सञ्छन्नस्तु मुहूर्तेन नौसार्थैरिव सागरः ॥
वारिधारासमूहेन सम्प्रहृष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुन्धराम् ॥
ततो धाराकुले लोके सम्भ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥
नैव निम्नं स्थलं वाऽपि सोऽविन्दत विहन्गहा ।
पूरितो हि जलौघेनन तस्य मार्गो वनस्य तु ॥
पक्षिणं वर्षवेगेन हता लीनास्तु पादपात् ।
मृगसिहवराहाश्च ये चान्ये तत्र पक्षिणः ॥
महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।
ददर्श पतितां भूमौ कपोतीं शीतविह्वलाम् ॥
दृष्टवाऽर्तोपि हि पापात्मा स तां पञ्जरकेऽक्षिपत् ।
स्वयं दुःखाभिभूतोऽपि दुःखमेवाकरोत्परे ॥
पापात्मा पापकारित्वत्पापमेव चकार सः ।
सोऽपश्यत्तरुषण्डेषु मेघनीलं वनस्पतिम् ॥
सेव्यमानं विहन्गौघैश्छायावासफलार्थिभिः ।
धात्रा परोपकाराय स साधुरिव निर्मितः ॥
अथाभवत्क्षणेनैव वियद्विमलतारकम् । महत्सर इवोत्फुल्लं कुमुदच्छुरितोदकम् ।
कुसुमाकारताराढ्यमाकाशं निर्मलं बहु ॥
घनैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ।
दिशो विलोकयामास वेलां च सुदुरात्मवान् ॥
दूरे ग्रामनिवेशश्च तस्मात्स्थानादिति प्रभो ।
कृतबुद्धिर्द्रुमे तस्मिन्वस्तुं तां रजनीं ततः ॥
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन्दैवतानीति भारत ॥
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताऽविष्टस्ततः सुष्वाप पक्षिहा ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0