महाभारत · अध्याय 12.142
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् ।
अस्तिस्विद्दस्युमर्यादा यामयं परिवर्जयेत् ॥
सम्मुह्यामि विपीदामि धर्मो मे शिथिलीकृतः ।
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ॥
भीष्म उवाच ।
नैतच्छ्रुत्वागमादेव तव धर्मानुशासनम् ।
प्रज्ञासमभिहारोऽयं कविभिः सम्भृतं मधु ॥
बाह्याः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।
बहुशाखेन धर्मेण यत्रैषा सम्प्रसिध्यते ॥
बुद्धिं सञ्जनयेद्राज्ञां धर्ममाचरतां सदा ।
जयो भवति कौरव्य सदा तद्वृद्धिरेव च ॥
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः ।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते ।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥
अद्वैधज्ञः प्रतिद्वैधे संशयं प्राप्नुमर्हति ।
बुद्धिद्वैधं विधातव्यं पुरस्तादेव भारत ॥
पार्श्वतः कारणं राज्ञो विषूच्यस्त्वापगा इव ।
जनास्तूच्चरितं धर्मं विजान्त्यन्यथाऽन्यथा ॥
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे ।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम् ॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते ॥
आजिजीविषवो विद्यां यशः कामौ समन्तनः ।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः ॥
अपक्वमतयो मन्दा न जानन्ति यथातथम् ।
तथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः ॥
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।
विज्ञानमथ विद्यानां न सम्यगिति मे मतिः ॥
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च ।
वागास्तिक्यानुनीताश्च दुग्धविद्याफला इव ॥
तान्विद्यावणिजो विद्धि राक्षसानिव भारत ।
व्याजेन कृत्स्नो विहितो धर्मस्ते परिहास्यते ॥
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम् ।
इति बार्हस्पत्यविज्ञानं प्रोवाच मघवा स्वयम् ॥
न त्यव वचनं किञ्चिदनिमित्तादिहोच्यते ।
स्वविनीतेन शास्त्रेण ह्यविद्यः स्यादथापरः ॥
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः ।
समुद्दिष्टं सतां धर्मं स्वयमूहेत् पण्डितः ॥
अमर्षाच्छास्त्रसम्मोहादनिमित्तादिहोच्यते ।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ॥
आगमागतया बुद्ध्या वचनेन प्रशस्यते ।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ॥
अनुपागतमेवेदं शास्त्रमेवमपार्थकम् ।
दैतेयानुशना प्राह संशयच्छेदनं पुरा ॥
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत् ।
तेन सञ्च्छिन्नमूलेन कस्तोषयितुमिच्छति ॥
पुनर्व्यवसितं यो वा नेदं वाक्यमुपाश्नुते ।
उग्रायैव हि सृष्टोऽसि कर्मणे तत्त्वमीक्षसे ॥
अग्रे मामन्ववेक्षस्व राजन्योऽयं बुभूषते ।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते ॥
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् ।
तस्मान्नतैक्ष्ण्याद्भूतानां यात्रा काचित्प्रसिद्ध्यति ॥
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।
एषा ह्येव तु मर्यादा यामयं परिवर्जयेत् ॥
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयत्युत ।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव ।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् ।
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥
विहीनजन्मकर्माणि यः प्रगृह्णाति भूमिपः ।
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम् ।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥
अरुष्टः कस्यचिद्राजन्नेवमेव समाचर । अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् ।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥
युधिष्ठिर उवाच ।
अस्ति चेदिह मर्यादा यामन्यो नातिलङ्घयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
ब्राह्मणानेव सेवेत विद्याबृद्धांस्तपस्विनः ।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥
शुश्रूषा तु महाराज सान्त्वं विप्रेषु नित्यदा ।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥
तेषां प्रीत्या यशो मुख्यमप्रीत्या परमं भयम् ।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथोरगाः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0