भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.141

12.141.1

हीने परमके धर्मे सर्वलोकविलङ्घिते ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥

12.141.2

मर्यादासु प्रभिन्नासु क्षुभिते लोकिश्चये ।
राजभिः पीडिते लोके चोरैर्वाऽपि विशाम्पते ॥

12.141.3

सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥

12.141.4

अविश्वस्तेषु सर्वेषु नित्यं भीतेषु भारत ।
नित्यं च हन्यमानेषु वञ्चयत्सु परस्परम् ॥

12.141.5

प्रदीप्तेषु च देशेषु ब्राह्मण्ये चातिपीडिते ।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥

12.141.6

सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥

12.141.7

अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।
कतमापदि वर्तेत तन्मे ब्रूहि पितामह ॥

12.141.8

कथं च राजा वर्तेत लोके कलुषतां गते ।
कथमर्थाच्च धर्माच्च न हीयेत परन्तप ॥
भीष्म उवाच ।

12.141.9

राजमूला महाबाहो योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥

12.141.10

कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ ।
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥

12.141.11

तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥

12.141.12

अधाप्युदाहरन्तीममितिहासं पुरातनम् ।
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥

12.141.13

त्रेताद्वापरयोः सन्धौ पुरा दैवव्यतिक्रमात् ।
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ॥

12.141.14

प्रजानामतिवृद्धानां युगान्ते समुपस्थिते ।
त्रेतायां मोक्षसमये द्वापरप्रतिपादने ॥

12.141.15

न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः ।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तमण्डलः ॥

12.141.16

नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।
नद्यः सन्क्षिप्ततोयौघाः किञ्चिदन्तर्गताऽभवन् ॥

12.141.17

सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।
हतत्विषो न लक्ष्यन्ते निसर्गात्पूर्वकारितात् ॥

12.141.18

भूमिः शुष्कजलस्थाना विनिवृत्तसभाप्रपा ।
निवृत्तयज्ञस्वाध्याया निर्वषट््कारमङ्गला ॥

12.141.19

उत्सन्नकृषिगोरक्षा निवृत्तविपणापणा ।
निवृत्तपूर्वसमया सम्प्रनष्टमहोत्सवा ॥

12.141.20

अस्थिकङ्कालसन्कीर्णा हाहाभूतनराकुला ।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥

12.141.21

क्वचिच्चोरैः क्वचिच्छूरैः क्वचिद्राजभिरातुरैः ।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥

12.141.22

गतदैवतसंस्थाना वृद्धबालविनाकृता ।
गोजाविमहिषीहीना परस्परपराहता ॥

12.141.23

हतविप्रा हतारक्षा प्रनष्टोत्सवसञ्चया ।
शवभूतनरप्राया बभूव वसुधा तदा ॥

12.141.24

तस्मिन्प्रतिभये काले क्षीणधर्मे युधिष्ठिर ।
बभूवुः क्षुधिता मर्त्याः खादमानाः परस्परम् ॥

12.141.25

ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदेवताः ।
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः ॥

12.141.26

विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत् ॥

12.141.27

त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि ।
भक्ष्याभक्ष्यसमो भ्रूत्वा निरग्निरनिकेतनः ॥

12.141.28

स कदाचित्परिपतञ्श्वपचानां निकेतनम् ।
हिंस्राणां प्राणिघातानामाससाद वने क्वचित् ॥

12.141.29

विभिन्नकलशाकीर्णं श्रमांसेन च भूषितम् ।
वराहखरभग्नास्थिकपालघटसन्कुलम् ॥

12.141.30

मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमुखम् ॥

12.141.31

कुक्कुटाराबहुलं गर्दभध्वनिनादितम् ।
उद्धोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥

12.141.32

उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम् ।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥

12.141.33

तत्प्रविश्य क्षुधाविष्टो गाधिपुत्रो महानृपिः ।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥

12.141.34

न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।
मांसमन्नं फलं मूलमन्यद्वा तत्र किञ्चन ॥

12.141.35

अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥

12.141.36

स चिन्तयामास मुनिः किन्नु मे सुकृतं भवेत् ।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥

12.141.37

स ददर्श श्वमांसस्य कुतन्त्रीं पतितां मुनिः ।
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य वै ॥

12.141.38

स चिन्तयामास तदा स्तेयं कार्यमितो मया ।
न--दानीमुपायो मे विद्यते प्राणधारणे ॥

12.141.39

---सु विहितं स्तेयं विशिष्टसमहीनतः । परस्परं भवेत्पूर्वमास्थेयमिति निश्चयः ।

12.141.40

हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।
असम्भवे त्वाददीत विशिष्टादपि धार्मिकात् ॥

12.141.41

सोऽहमन्तावसायीनां हराम्येनां प्रतिग्रहात् ।
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥

12.141.42

एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।
तस्मिन्देशे सुसुष्वाप पतितो यत्र भारत ॥

12.141.43

स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।
शनैरुत्थाय भगवान्प्रविवेश कुटीमुखम् ॥

12.141.44

स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥

12.141.45

कः कुतन्त्रीं घट्टयति सुप्ते चण्डालपक्कणे ।
जागर्मि नैव सुप्तोऽस्मि हतोऽसीति च दारुणः ॥

12.141.46

विश्वामित्रोऽहमित्येव सहसा तमुवाच ह ।
सहसाऽभ्यागतं भूयः सोद्वेगस्तेन कर्मणा ॥

12.141.47

विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः ।
मा वधीर्मम सद्बुद्धे यदि सम्यक्प्रपश्यसि ॥

12.141.48

चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।
शयनादुपसम्भ्रान्त उद्ययौ प्रति तं ततः ॥

12.141.49

स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥

12.141.50

विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।
क्षुधितोऽन्तर्गतप्राणो हरिष्यामि श्वजाघनीम् ॥

12.141.51

क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः ।
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥

12.141.52

अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा । दुर्बलो नष्टसञ्ज्ञश्च भक्ष्याभक्ष्यविवर्जितः ।
सोधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥

12.141.53

यदा भैक्षं न विन्दामि युष्माकमहमालये ।
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥

12.141.54

अग्निर्मुखं पुरोधाश्च देवानां शुचिषाङ्विभुः ।
यथा च सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥

12.141.55

तमुवाच स चण्डालो महर्षे शृणु मे वचः ।
श्रुत्वा तथा तमातिष्ठ यथा धर्मो न हीयते ॥

12.141.56

धर्मं तवापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥

12.141.57

मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।
तस्याप्यधम उद्देशः शरीरस्य तु जाघी ॥

12.141.58

नेदं सम्यग्व्यवसितं महर्षे कर्म गर्हितम् ।
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥

12.141.59

साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।
श्वमांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥

12.141.60

जानता विहितो मार्गो न कार्यो धर्मसन्करः ।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥

12.141.61

विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥

12.141.62

निराहारस्य सुमहान्मम कालोऽभिधावतः ।
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥

12.141.63

येनकेन विशेषेण कर्मणा येनकेनचित् ।
उज्जिहीर्षे सीदमानः समर्थो धर्ममाचरेत् ॥

12.141.64

ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।
ब्रह्मवह्निर्मम बलं भोक्ष्यामि शमयन्क्षुधाम् ॥

12.141.65

यथायथैव जीवेद्धि तत्कर्तव्यमहेलया ।
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥

12.141.66

सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम् ।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥

12.141.67

जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि तु ।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥
श्वपच उवाच ।

12.141.68

नैतत्खादन्प्राप्स्यसे प्राणमद्य नायुर्दीर्घं नामृतस्येव तृप्तिम् ।
भिक्षामन्यां भिक्ष मा ते मनोस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥
विश्वामित्र उवाच ।

12.141.69

न दुर्भिक्षे सुलभं मांसमन्य च्छ्वपाकमन्ये न च मेऽस्ति वित्तम ।
क्षुघार्तश्चाहमगतिर्निराशः श्वजाघनीं ष़ड््सात्साधु मन्ये ॥
श्वपच उवाच ।

12.141.70

पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः । शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।
यदि शास्त्रं प्रमाणं ते माऽभक्ष्ये वै मनः कृथाः ॥
विश्वामित्र उवाच ।

12.141.71

अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥
श्वपच उवाच ।

12.141.72

भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥
विश्वामित्र उवाच ।

12.141.73

शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥
श्वपच उवाच ।

12.141.74

असद्भिर्यः समाचीर्णो न स धर्मः सनातनः ।
अकार्यमिह कार्यं वा मा छलेनाशुभं कृथाः ॥
विश्वामित्र उवाच ।

12.141.75

न पातकं नावमतमृषिः सन्कर्तुमर्हति ।
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥
श्वपच उवाच ।

12.141.76

यद्ब्राह्मणार्थे कृतमर्थिनेन तेनर्षिणा तदभक्ष्यं न कामात् ।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥
विश्वामित्र उवाच ।

12.141.77

मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।
तद्भोक्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न विभ्ये ॥
श्वपच उवाच ।

12.141.78

कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम् ।
सर्वांश्च कामान्प्राप्नुवन्तीति विद्धि स्वर्गे निवासात्सहते क्षुधां वै ॥
विश्वामित्र उवाच ।

12.141.79

स्थाने भवेत्स यशः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः ।
अहं पुनर्व्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥

12.141.80

बुद्ध्यात्मके व्यक्तमस्तीति सृष्टो मोक्षात्मके त्वं यथा शिष्टचक्षुः ।
यद्यप्येतत्संशयाच्च त्रपामि नाहं भविष्यामि यथा न माया ॥
श्वपच उवाच ।

12.141.81

गोपनीयमिदं दुःखमिति मे निश्चिता मतिः ।
दुष्कृतं ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥
विश्वामित्र उवाच ।

12.141.82

पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति वा भूरात्मप्रशंसकः ॥
श्वपच उवाच ।

12.141.83

सुहृद्भूत्वाऽनुशोचे त्वां कृपा हि त्वयि मे द्विज ।
तदिदं श्रेय आधत्स्व मा लोभे चेत आदधाः ॥
विश्वामित्र उवाच ।

12.141.84

सृहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जामऽहं धर्मतोऽत्मानमुत्सृजेमां श्वजाघनीम् ॥
श्वपच उवाच ।

12.141.85

नैवोत्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।
उभौ स्यावः श्वमलेनानुलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छम् ॥
विश्वामित्र उवाच ।

12.141.86

अद्याहमेतद्वॄजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।
सम्पूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥
श्वपच उवाच ।

12.141.87

आत्मैव साक्षी किल धर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम् ।
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥
विश्वामित्र उवाच ।

12.141.88

उपधानैः साधते नापि दोषः कार्ये सिद्धे मित्र नात्रापवादः ।
अस्मिन्नहिंसा नानृते वाक्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः ॥
श्वपच उवाच ।

12.141.89

यद्येष हेतुस्तव खादने स्या न्न ते वेदः कारणं नार्यधर्मः ।
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र ॥
विश्वामित्र उवाच ।

12.141.90

न पातकं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः ।
अन्योन्यकार्याणि यथा तथैव न लेपमात्रेण कृतं हिनस्ति ॥
श्वपच उवाच ।

12.141.91

पादौ मूलं समभवद्वृन्ताकं शिर उच्यते ।
शेफात्तु गृञ्जरं जातं पलाण्डुस्त्वण्डसम्भवः ॥

12.141.92

श्वरोमजः शैव्यशाको लशुनं द्विजसम्भवम् । चुक्किनामा पर्णशाकः कर्णादजनि भूसुर ॥

12.141.93

अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधु वृत्तम् ।
श्वानं पुनर्यो लभतेऽभिषङ्गा त्तेनापि दण्डः सहितव्य एव ॥
भीष्म उवाच ।

12.141.94

एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥

12.141.95

ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः ।
सदारस्तामुपाहृत्य वने भोक्तुमियेप सः ॥

12.141.96

अथास्य बुद्धिरभवद्विधिनाऽहं श्वजाघनीम् ।
भक्षयामि यथाकालं पूर्वं सन्तर्प्य देवताः ॥

12.141.97

ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः ।
ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् ॥

12.141.98

ततः समारभत्कर्म दैवं पित्र्यं च भारत ।
आहूय देवानिन्द्रादीन्भागम्भागं विधिक्रमात् ॥

12.141.99

एतस्मिन्नेव काले तु प्रववर्ष स वासवः ।
सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥

12.141.100

विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्चिषः ।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥

12.141.101

स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः ।
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥

12.141.102

एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥

12.141.103

एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥

12.141.104

तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं कृतात्मना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc