भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.140

12.140.1

युगक्षयात्परिक्षीणे धर्मे लोके च भारत ।
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह ॥
भीष्म उवाच ।

12.140.2

हन्त ते वर्तयिष्यामि नीतिमापत्सु भारत ।
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः ॥

12.140.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भारद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च ॥

12.140.4

राजात्शत्रुन्तपो नाम सौवीरेषु महारथः ।
भारद्वाजमुपागम्य पप्रच्छार्थविनिश्चयम् ॥

12.140.5

अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते ।
वधितं पाल्यते केन पालितं प्रणयेत्कथम् ॥

12.140.6

तस्मै विनिश्चितार्थाय परिपृष्टोऽर्थिश्चयम् ।
उवाच मतिमान्वाक्यमिदं हेतुमदुत्तमम् ॥

12.140.7

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः ॥

12.140.8

नित्यमुद्यतदण्डस्य भृशमुद्विजते नरः ।
तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥

12.140.9

एवमेव प्रशंसन्ति बुधा ये तत्त्वदर्शिनः ।
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते ॥

12.140.10

छिन्नमूले त्वधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ ॥

12.140.11

मूलमेवादितश्छिन्द्यादरिपक्षस्य पण्डितः ।
ततः सहायान्पक्षं च सर्वमेवानुशातयेत् ॥

12.140.12

सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् ।
आपदागमकाले तु कुर्वीत न विचारयेत् ॥

12.140.13

वाङ्भात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः ।
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् ॥

12.140.14

सपत्नसहितो राज्ये कृत्वा सन्धिं न विश्वसेत् ।
उपक्रामेत्ततः शीघ्रं कृतकार्यो विचक्षणः ॥

12.140.15

शत्रुं च मित्रं पूर्वेण सान्त्वेनैवानुसान्त्वयेत् ।
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव ॥

12.140.16

यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥

12.140.17

अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् ।
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥

12.140.18

वहेदमित्रं स्कन्धेन यावदर्थस्य लम्भनम् ।
अथैनमागते काले भिन्द्याद्धटमिवाश्मनि ॥

12.140.19

मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् ।
मा तुषाग्निरिवानर्चिर्धूमायेत चिरं नरः ॥

12.140.20

नानार्थिकोऽर्थसम्बन्धं कृतघ्ने न समाचरेत् । अर्थी तु शक्यते भोक्तुं कृतकार्योऽवमन्यते ।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥

12.140.21

कोकिलस्य वराहस्य मेरोः शून्यस्य वेस्मनः ।
व्यालस्य भक्तचित्तस्य यच्छ्रेयस्तत्समाचरेत् ॥

12.140.22

उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहम् ।
कुशलं चास्य पृच्छेत यद्यप्यकुशलं भवेत् ॥

12.140.23

नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा नातिमानिनः ।
न च लोकरवाद्भीता न वै शश्वत्प्रतीक्षिणः ॥

12.140.24

नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥

12.140.25

बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् ।
वृकवच्चावलुम्पेत शरवच्च विनिष्पतेत् ॥

12.140.26

पानमक्षास्तथा नार्यो मृगया गीतवादितम् ।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् ॥

12.140.27

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् ॥

12.140.28

देशकालं समासाद्य विक्रमेत विचक्षणः ।
देशकालव्यतीतो हि विक्रमो निष्फलो भवेत् ॥

12.140.29

कालाकालौ सम्प्रधार्य बलाबलमथात्मनः ।
परस्य च बलं ज्ञात्वा तथाऽत्मानं नियोजयेत् ॥

12.140.30

दण्डेनोपनतं शत्रुं यो राजा न नियच्छति ।
स मृत्युमुपगूहेत् गर्भमश्वतरी यथा ॥

12.140.31

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसन्काशो न च शीर्येत कस्यचित् ॥

12.140.32

आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुमत् ॥

12.140.33

भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥

12.140.34

न साहसमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥

12.140.35

अनागतं विजानीयात्त्यजेद्भयमुपस्थितम् ।
पुनर्बुद्धिक्षयात्किञ्चिदनिवृत्तिं निशामयेत् ॥

12.140.36

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् ।
अनागतसुखाशा च नैव बुद्धिमतां नयः ॥

12.140.37

योऽरिणा सह सन्धाय विश्वस्तः स्वपते सुखम् ।
स वृक्षाग्रे प्रसुप्तो वा पतितः प्रतिबुध्यते ॥

12.140.38

कर्मणा येन केनेह मृदुना दारुणेन वा ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥

12.140.39

ये सपत्नाः सपत्नानां सर्वांस्ताननुवर्तयेत् ।
आत्मनश्चापि बोद्धव्याश्चाराः सुमहिताः परैः ॥

12.140.40

चारः सुविहितः कार्य आत्मनोऽथ परस्य च ।
पाषण़्डांस्तापसादींश्च परराष्ट्रे प्रवेशयेत् ॥

12.140.41

उद्यानेषु विहारेषु प्रपास्वावसथेषु च ।
पानागारे प्रवेशेषु तीर्थेषु च सभासु च ॥

12.140.42

धर्माभिचारिणः पापाश्चौरा लोकस्य कण्टकाः ।
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयीत च ॥

12.140.43

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमभ्येति नापरीक्ष्य च विश्वसेत् ॥

12.140.44

विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना ।
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे ॥

12.140.45

अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितान ।
भयं ह्यशङ्किताज्जातं समूलमपि कृन्तति ॥

12.140.46

अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः ॥

12.140.47

पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृद ।
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिमिच्छता ॥

12.140.48

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥

12.140.49

प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन केनचित् । प्रपूजयन्निघाती स्यात्तीक्ष्णतुण्ड इव द्विजः ।

12.140.50

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् ॥

12.140.51

नास्ति जात्या रिपुर्नाम मित्रं वाऽपि न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥

12.140.52

न प्रमुञ्चेत दायादं वदन्तं करुणं बहु ।
दुःखं तत्र न कर्तव्यं हन्यात्पूर्वापकारिणम् ॥

12.140.53

सन्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता ।
निग्रहश्चापि यत्नेन कर्तव्यो हितमिच्छता ॥

12.140.54

प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् ।
असिनाऽपि शिरश्छित्त्वा शोचेत च रुदेत च ॥

12.140.55

निमन्त्रयीत सान्त्वेन सम्मानेन तितिक्षया ।
आशाकरणमित्येतत्कर्तव्यं भूतिमिच्छता ॥

12.140.56

न शुष्कवैरं कुर्वीत बाहुभ्यां न नदीं तरेत् । अनर्थकमनायुष्यं गोविषाणस्य भक्षणम् ।
दन्ताश्च परिमृद्यन्ते रसश्चापि न लभ्यते ॥

12.140.57

त्रिवर्गे त्रिविधा पीडा अनुबन्धस्तथैव च ।
अनुबन्धं तथा ज्ञात्वा पीडां च परिवर्जयेत् ॥

12.140.58

ऋणशेषं चाग्निशेषं शत्रुशेषं तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न कारयेत् ॥

12.140.59

ऋणशेषां विवर्धन्ते परिभूताश्च शत्रवः ।
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः ॥

12.140.60

नाम---क्कृत्यकारी स्यादप्रमत्तः सदा भवेत् ।
कष्यकोपि हि दुश्छिन्नो विकारं कुरुते चिरम् ॥

12.140.61

वधेम च मनुष्याणां मार्गाणां दूषणेन च ।
आकाराणां विनाशैश्च परराष्ट्रं विनाशयेत् ॥

12.140.62

गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः ।
अनुद्विग्रः काकशङ्की भुजङ्गचरितं चरेत् ॥

12.140.63

शूरमञ्जलिपातेन भीरुं भेदेन भेदयेत् ।
लुब्धमर्थप्रदानेन समं तुल्येन विग्रहः ॥

12.140.64

श्रेणीमुख्योपजापेषु वल्लभानुनयेषु च ।
अमात्यान्परिरक्षेत भेदसन्घातयोरपि ॥

12.140.65

मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥

12.140.66

मृदुनैव मृदुं हन्ति मृदुना हन्ति दारुणम् ।
नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरो मृदुः ॥

12.140.67

काले मृदुर्यो भवति काले भवति दारुणः ।
स साधयति कृत्यानि शत्रुं चाप्यधितिष्ठति ॥

12.140.68

पण्डितेन विरुद्धस्तु दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥

12.140.69

न तत्तरेद्यस्य न पारमुत्तरे न्न तद्धरेद्यत्पुनराहरेत्परः ।
न तत्खनेद्यस्य न मूलमुद्धरे न्न तं हन्याद्यस्य शिरो न पातयेत् ॥

12.140.70

इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् ।
परप्रयुक्तस्तु कथं विभावये दतो मयोक्तं भवतो हितार्थिना ॥
भीष्म उवाच ।

12.140.71

यथावदुक्तं वचनं हितार्थिना निशम्य विप्रेण सुवीरराष्ट्रपः ।
तथाऽकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc