महाभारत · अध्याय 12.136
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
येन मार्गेण राजानः कोशं सञ्जनयन्त्युत ॥
न धनं यज्ञशीलानां हार्यं देवस्वमेव च ।
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत ।
थनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा ।
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत ॥
यो वै न देवान्न पितृन्न मर्त्यान्हविषाऽर्चति ।
अनर्थकं धनं तत्र प्राहुर्धमेविदो जनाः ॥
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीतिः ।
न हि न प्रीणयेल्लोकान्न लोके गर्हते नृपम् ॥
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं सन्क्रमं कृत्वा मन्ये धर्मविदेव सः ॥
[तथातथा जयेल्लोकाञ्शक्त्या चैव यथायथा.] औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा ॥
अनिमित्तात्सम्भवन्ति तथा यज्ञः प्रजायते ।
यथैव दंशमशकं यथा कीटपिपीलिकम् ॥
सैव वृत्तिर्हि यज्ञेषु यथा धर्मो विधीयते ॥
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम् ।
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरः स्मृतः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0