भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.135

12.135.1

अत्राप्युदाहन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान् ॥

12.135.2

प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान् ।
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥

12.135.3

अनिषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥

12.135.4

अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता ।
वेधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥

12.135.5

सर्वकाननदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः ॥

12.135.6

अप्यनेकशतां सेनामेक एव जिगाय सः ।
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत् ॥

12.135.7

मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।
सत्कृत्य भोजयामास सम्यक्परिचचार ह ॥

12.135.8

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने ॥

12.135.9

येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥

12.135.10

तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे ।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥
दस्यव ऊचुः ।

12.135.11

मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः ।
ग्रामणीर्भव नो मुख्यः सर्वेपामेव सम्मतः ॥

12.135.12

यथायथा वक्ष्यसि नः करिष्यामस्तथातथा ।
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥
कापच्य उवाच ।

12.135.13

मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥

12.135.14

सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत ।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥

12.135.15

सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः ।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह ॥

12.135.16

सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति ।
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत् ॥

12.135.17

यस्य त्वेते सम्प्रदुष्टास्तस्य विद्यात्पराभवम् ।
न तस्य त्रिषु लोकेषु त्राता भवति कस्चन ॥

12.135.18

यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत् ।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥

12.135.19

इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः ।
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥

12.135.20

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते ।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥

12.135.21

ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन ।
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा ॥

12.135.22

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः । अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः ।
भीष्म उवाच ।

12.135.23

ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥

12.135.24

कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥

12.135.25

इदं कापच्यचरितं यो नित्यमनुचिन्तयेत् ।
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथञ्चन ॥

12.135.26

न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन ।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc