भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.137

12.137.1

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥

12.137.2

अत्रैव चेदमव्यग्रं शृण्वाख्यानमनुत्तमम् ।
द्रीर्घसूत्रमुपाश्रित्य कार्याकार्यविनिश्चये ॥

12.137.3

नातिगाधे जलस्थाने सुहृदः कुशलास्त्रयः ।
प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः ॥

12.137.4

तत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथाऽपरः ।
दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् ॥

12.137.5

क्रदाचित्तज्जलस्थानं मत्स्यबन्धाः समन्ततः ।
स्रावयामासुरथो निम्नेषु विविधैर्मुखैः ॥

12.137.6

क्षीयमाणं तद्बुद्ध्वा जलस्थानं भयागमे ।
अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा ॥

12.137.7

ज्ञयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् ।
शीघ्रमन्यत्र गच्छामः पन्था यावन्न शुष्यति ॥

12.137.8

अनागतमनर्थं हि सुनयैर्यः प्रबाधते ।
स न संशयमाप्नोति तथाऽन्यत्र व्रजामहे ॥

12.137.9

शीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुष्यताम् ।
न तु कार्या त्वरा तावदिति मे निश्चिता मतिः ॥

12.137.10

अथ सम्प्रतिपत्तिज्ञस्त्वब्रवीद्दीर्घदर्शिनम् ।
प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते ॥

12.137.11

एवप्नुक्तो निराक्रामद्दीर्घदर्शी महामतिः ।
अगाम स्रोतसैकेन गम्भीरं सलिलाशयम् ॥

12.137.12

ततः प्रसृततोयं तं प्रसमीक्ष्य जलाशयम् ।
बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः ॥

12.137.13

विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये ।
अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरै---- ॥

12.137.14

उद्दानं क्रियमाणं तु मत्स्यानां ------ ।
प्रविश्यान्तरमन्येषामग्रसत्प्रति------- ॥

12.137.15

ग्रस्तमेव तदुद्दानं गृहीत्वा----सः ।
सर्वानेव च तांस्तत्र ते वि--- इति ॥

12.137.16

ततः प्रक्षाल्यमानेषु मत्स्येषु विपुले जले ।
त्वक्त्वा रज्जुं प्रमुक्तोसौ शीघ्रं सम्प्रतिपत्तिमान् ॥

12.137.17

दीर्घसूत्रस्तु मन्दात्मा हीनेयुद्धिरचेतनः ।
मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः ॥

12.137.18

एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते ।
स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः ॥

12.137.19

आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् ।
स हि संशयमाप्नोति यथा सम्प्रतिपत्तिमान् ॥

12.137.20

अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
द्वावेतौ सुखमेधेते दीर्घसूत्री विनश्यति ॥

12.137.21

काष्ठा कला मुहूर्ताश्च दिनरात्र्यः क्षणा लवाः ।
मासाः पक्षाः षडृतवः कालः संवत्सराणि च ॥

12.137.22

पृथिवी देश इत्युक्तः स च कालो न दृश्यते ।
अभिप्रेतार्थसिद्ध्यर्थं दूरतो न्यायतस्तथा ॥

12.137.23

एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः ।
प्रधानाविति निर्दिष्टौ कामे चाभिमतौ नृणाम् ॥

12.137.24

परीक्ष्यकारी युक्तश्च स सम्यगुपपादयेत् ।
देशकालावभिप्रेतौ तोभ्यां फलमवाप्नुयात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc