भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.132

12.132.1

हीने परमके धर्मे सर्वलोकातिलङ्घने ।
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ॥

12.132.2

केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ।
असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह ॥
भीष्म उवाच ।

12.132.3

विज्ञानबलमास्थाय जीवितव्यं तथा गते ।
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन ॥

12.132.4

असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं सन्क्रमं कृत्वा कृच्छ्रधर्मकृदेव सः ॥

12.132.5

अरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् ।
अदत्तमप्याददीत् भ्रातुर्वित्तं ममेति वा ॥

12.132.6

विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि ।
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति ॥

12.132.7

येषां बहुकृता बुद्धिस्तेषामन्या न रोचते ।
यजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर ॥

12.132.8

यदैव प्रकृतं शास्त्रं जनस्तदनुवर्तते ।
यदैवमध्यासेवन्ते मेध्रावी वाऽप्यथोत्तरम् ॥

12.132.9

ऋत्विक्पुरोहिताचार्यान्सत्कृतानभिसत्कृतान् ।
न ब्राह्मणान्घातयीत दोषान्प्राप्नोति घातयन् ॥

12.132.10

एतत्प्रमाणं लोकस्य चक्षुरेतत्सातनम् ।
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥

12.132.11

हवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम् ।
न तेषां वचनाद्राजा सत्कुर्याद्धातयीत वा ॥

12.132.12

न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥

12.132.13

न सतां शीलमेतद्वै परिवादो न पैशुनम् ।
गुणानामेव वक्तारः सन्तो नित्यं युधिष्ठिर ॥

12.132.14

यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ ।
धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः ॥

12.132.15

यथायथाऽस्य बहवः सहायाः स्युस्तथा चरेत् ।
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ॥

12.132.16

अपरे नैवमिच्छन्ति ये शङ्खलिखिन्तप्रियाः ।
अर्थे क्षीणेऽथवा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम् ॥

12.132.17

आर्षमष्यत्र पश्यन्ति विकर्मस्थस्य पातनम् ।
न चार्षात्सदृशं किञ्चित्प्रमाणं दृश्यते क्वचित् ॥

12.132.18

देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम् ।
व्याजेन विन्दन्वित्तं हि धर्मतः परिहीयते ॥

12.132.19

सर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥

12.132.20

यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित् ।
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥

12.132.21

यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् ।
लक्षेद्रुधिरपातेन तथा धर्मपदं नयेत् ॥

12.132.22

यथा सम्यग्वितेन पथा गन्तव्यमप्युत ।
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc