भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.133

12.133.1

स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः ।
कोशाद्धि धर्मः कौन्तेय राज्यमूलं प्रवर्तते ॥

12.133.2

तस्मात्सञ्जनयेत्कोशं सत्कृत्य परिपालयेत् ।
परिपाल्यानुगृह्णीयादेव धर्मः सनातनः ॥

12.133.3

स कोशः शुद्धभावेन न नृशंसेन जायते ।
मध्यमं पदमास्थाय कोशसन्ग्रहणं चरेत् ॥

12.133.4

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् ।
अबलस्य कुतो राज्यमराज्ये श्रीर्भवेत्कुतः ॥

12.133.5

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा ।
तस्मात्कोशं बलं मित्रमथ राजा विवर्धयेत् ॥

12.133.6

हीनकोशं हि राजानमवमन्यन्ति शत्रवः ।
न चास्याल्पे तुष्यन्ति कर्मणाऽप्युत्सहन्ति च ॥

12.133.7

श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् ।
साऽस्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ॥

12.133.8

ऋद्धिमस्यानुतप्यन्ते पुरा विप्रकृता नराः । सालावृका इवाजस्नं जिघांसूनेव विन्दति ।
ईदृशस्य कुतो राज्यं सुखं भरतसत्तम ॥

12.133.9

उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥

12.133.10

अप्यरण्यं समाश्रित्य चरेन्मृगगणैः सह ।
न त्वेवोद्रिक्तमर्यादैर्दस्युभिः सहितश्चरेत् ॥

12.133.11

दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ।
एकान्ततो ह्यमर्यादात्सर्वोऽप्युद्विजते जनः ॥

12.133.12

दस्यवोऽप्यभिशङ्कन्ते निरनुक्रोशकारिणः ॥

12.133.13

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् ।
अल्पाप्यर्थेषु मर्यादा लोके भवति पूजिता ॥

12.133.14

नायं लोकोऽस्ति न पर इति व्यवसितो जनः ।
नालं गन्तुमिहाश्वासं नास्तिक्यभयशङ्कितैः ॥

12.133.15

यथा सद्भिः परादानमहिंसा दस्युभिस्तथा ।
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥

12.133.16

अयुध्यमानस्यादानं दारामर्शः कृतघ्नता ।
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ॥

12.133.17

स्त्रिया मोषः पथिस्थानं साधुष्वेव विगर्हितम् ।
सदोष एव भवति दस्युरेतानि वर्जयेत् ॥

12.133.18

अभिसन्दधते ये च विनाशायास्य भारत ।
सशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयः ॥

12.133.19

तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः ।
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ॥

12.133.20

सशेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः ।
निःशेषकारिणो नित्यं निःशेषकरणाद्भयम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc