भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.131

12.131.1

क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत ॥

12.131.2

विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च ।
असम्भावितमित्रस्य भिन्नामात्यस्य सर्वतः ॥

12.131.3

परचक्राभियातस्य दुर्बलस्य बलीयसा ।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥
भीष्म उवाच ।

12.131.4

बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत् ॥

12.131.5

[योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः.] आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥

12.131.6

अपास्य राजधानीं वा तरेदन्येन वाऽपदम् ।
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥

12.131.7

यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः ।
कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥

12.131.8

अपराधाज्जुगुप्सेत का सपत्नधने दया ।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन ॥
युधिष्ठिर उवाच ।

12.131.9

आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते ।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते ॥
भीष्म उवाच ।

12.131.10

क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम ।
यदाऽपनयनं क्षिप्रमेतद्वै साम्परायिकम् ॥

12.131.11

अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः ।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥

12.131.12

हतो वा दिवमारोहेद्धत्वा च सुखमावहेत् ।
युद्धे हि सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥

12.131.13

सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च ।
विश्वासाद्विनयं कुर्यात्सञ्जह्याद्वाऽप्युपानहौ ॥

12.131.14

अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन् ।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc