भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.130

12.130.1

त्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः ।
-- सन्क्षीणकोशस्य बलहीनस्य भारत ॥

12.130.2

--मात्यसहायस्य श्रुतमन्त्रस्य सर्वतः ।
ज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः ॥

12.130.3

परचक्राभियातस्य परराष्ट्राणि मृद्गतः ।
विग्रहे वर्तमानस्य दुर्बलस्य बलीयसा ॥

12.130.4

असंविहितराष्ट्रस्य देशकालावजानतः । अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात् ।

12.130.5

जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत् ॥
भीष्म उवाच ।
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ ।

12.130.6

प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर ॥ धर्मो ह्यणीयान्वचनाद्वुद्धेश्च भरतर्षभ ।
श्रुत्वौपम्यं सदाचारैः साधुर्भवति स क्वचित् ॥

12.130.7

कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः ।
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया ॥

12.130.8

उपायं धर्मबहुलं यात्रार्थं शृणु भारत ।
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात् ॥

12.130.9

दुःखादान इह ह्येष स्यात्तु पश्चात्क्षमो मम ।
अभिगम्य मतीनां हि सर्वासामेव निश्चयम् ॥

12.130.10

यथायथा हि पुरुषो नित्यं शास्त्रमवेक्षते ।
तथातथा विजानाति विज्ञानं चास्य रोचते ॥

12.130.11

अविज्ञानादयोगो हि पुरुषस्योपजायते ।
विज्ञानादपि योगश्च योगो भूतिकरः परः ॥

12.130.12

अशङ्कमानो वचनमनसूयुरिदं शृणु ।
राज्ञः कोशक्षयादेव जायते बलसन्क्षयः ॥

12.130.13

कोशं सञ्जनयेद्राजा नित्यमेभ्यो यथाबलम् ।
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् ॥

12.130.14

उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः ।
अन्यो धर्मः समर्थानामापत्स्वल्पश्च भारत ॥

12.130.15

प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी ।
धर्मं प्राप्य यथान्यायं न बलीयान्निषीदति ॥

12.130.16

यस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते ।
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः ॥

12.130.17

अधर्मो जायते तस्मिन्निति वै कवयो विदुः ।
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते ॥

12.130.18

यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा ।
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् ॥

12.130.19

सर्वात्मनैव धर्मस्य न परस्य न चात्मनः ।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः ॥

12.130.20

तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः ।
उद्यमं जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः ॥

12.130.21

क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति ।
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत ॥

12.130.22

यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् ।
अभोज्यमपि चाश्नीयात्तत्रेदं नात्र संशयः ॥

12.130.23

पीडितस्य किमद्वारमुत्पथेनार्दितस्य च ।
अद्वारतः प्रद्रवति यथा भवति पीडितः ॥

12.130.24

तस्य कोशबलग्लान्यां सर्वलोकपराभवः ।
भैक्षचर्या न विहिता न च विट््शूद्रजीविका ॥

12.130.25

स्वधर्मानन्तरावृत्तिर्याऽन्यामनुपजीवतः ।
जहतः प्रथमं कल्पमनुकल्पेन जीवनम् ॥

12.130.26

आपद्गतेन धर्माणामन्यायेनोपजीवनम् ।
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये ॥

12.130.27

क्षत्रिये संशयः कस्मादित्येत्निश्चितं सदा ।
आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन ॥

12.130.28

आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः ।
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना ॥

12.130.29

अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित् ।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः ॥

12.130.30

न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् ।
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता ॥

12.130.31

परस्पराभिहरणं राज्ञा राष्ट्रेण चापदि ।
नित्यमेव हि कर्तव्यमेष धर्मः सनातनः ॥

12.130.32

राजा राष्ट्रं यथापत्सु द्रव्यौधैः परिरक्षति ।
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् ॥

12.130.33

कोशं दण़्डं बलं मित्रं यदन्यदपि सञ्चितम् ।
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा ॥

12.130.34

बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः ।
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् ॥

12.130.35

धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति ।
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि ॥

12.130.36

राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् ।
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः ॥

12.130.37

नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् ।
तदर्थं पीडयित्वा च न दोषं प्राप्नुमर्हति ॥

12.130.38

अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु ।
एतस्मिन्कारणे राजा न दोषं प्राप्नुमर्हति ॥

12.130.39

अर्थार्थमन्यद्भवति विपरीतमथापरम् । अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम् ।
एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् ॥

12.130.40

यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः ।
यज्ञस्वार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधकम् ॥

12.130.41

उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् ॥

12.130.42

यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिः ।
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि ॥

12.130.43

ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन् । एवं कोशस्य महतो ये नराः परिपन्थिनः ।
तानहत्वा न पश्यामि सिद्धिमत्र परन्तप ॥

12.130.44

धनेन जयते लोकमिमं चामुं च भारत ।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥

12.130.45

सर्वोपायैराददीत धनं यज्ञप्रयोजनम् ।
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥

12.130.46

नोभौ सभवतो राजन्कथञ्चिदपि भारत ।
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥

12.130.47

यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन ।
ममेदं स्यान्ममेदं स्यादित्येवं मन्यते जनः ॥

12.130.48

न च राज्ञः समो धर्मः कश्चिदस्ति कथञ्चन ।
धर्मः संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा ॥

12.130.49

ज्ञानेन कर्मणा चान्ये तपन्त्यन्ये तपस्विनः ।
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसञ्चयान् ॥

12.130.50

अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान् ॥

12.130.51

कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम् ।
तं धर्मेण विलिप्सेत नाधर्मेण कदाचन ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc