भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.126

12.126.1

प्रविश्य च महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा ॥

12.126.2

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि ॥

12.126.3

स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः ।
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम् ॥

12.126.4

ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः ।
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम् ॥

12.126.5

केन भद्रमुखार्थेन तपोवनमुपागतः ।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥

12.126.6

एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले तु जातस्त्वं किन्नामा चासि ब्रूहि नः ॥

12.126.7

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत ॥

12.126.8

हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः ।
चरामि मृगयूथानि निघ्रन्बाणैः सहस्रशः ॥

12.126.9

बलेन महता ब्रह्मन्सामात्यः सावरोधकः ।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥

12.126.10

तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥

12.126.11

किन्नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥

12.126.12

न राजलक्षणत्यागः पुनरस्य तपोधनाः ।
दुःखं करोति मे तीव्रं यथाऽशा विहता मम ॥

12.126.13

हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥

12.126.14

आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥

12.126.15

भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम् ।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ॥

12.126.16

किन्नु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥

12.126.17

यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम् ।
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः ॥

12.126.18

भवत्तपोविघातो वा येन स्याद्विरमे ततः ।
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥

12.126.19

एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc