भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.125

12.125.1

शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना का च सा तद्वदस्व मे ॥

12.125.2

संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥

12.125.3

पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु तद्युक्तं तत्कर्ताऽयमिति प्रभो ॥

12.125.4

सर्वस्याशा सुमहती पुरुषस्योपजायते ।
स्यां विहन्यमानायां दुःखो मृत्युर्न संशयः ॥

12.125.5

ऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
र्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥

12.125.6

आशां बृहत्तरीं मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्नप्रमेयाऽथवा पुनः ॥

12.125.7

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥
भीष्म उवाच ।

12.125.8

अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध मे ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥

12.125.9

सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार च मृगं विद्ध्वा बाणेनानतपर्वणा ॥

12.125.10

स मृगो बाणमादाय ययावतिपराक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥

12.125.11

ततो निम्नं स्थलं चैव समृगोऽद्रवदाशुगः ।
मुहूर्तमिव राजेन्द्र समेन स पथाऽगमत् ॥

12.125.12

ततः स राजा तारुण्यादौरसन बलेन च ।
चचार बाणासनभृत्सखङ्गो हंसवत्तदा ॥

12.125.13

ततो नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः ॥

12.125.14

स तु तावन्मृगो राजन्नासाद्यासाद्य पार्थिवम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥

12.125.15

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥

12.125.16

पुनश्च जवमास्थाय जवनो मृगयूथपः । [अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ ]

12.125.17

तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरं श्रेष्ठं कार्मुकान्निरवासयत् ॥

12.125.18

[ततो गव्यूतिमात्रेण मृगयूथपयूथपः.] तस्य बाणपथं मुक्त्वा तस्थिवान्प्रहसन्निव ॥

12.125.19

तस्मिन्निपतिते बाणे भूमौ ज्वलिततेजसि ।
प्रविवेश मृगोऽरण्यं मृगं राजाऽप्यभिद्रवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc