महाभारत · अध्याय 12.127
ततस्तेषां समेतानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिर्विस्मयन्निदमब्रवीत् ॥
पुराऽहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥
यत्र सा बदरी रम्या सरो वैहायसं तथा ।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥
तस्मिन्सरसि कृत्वाऽहं विधिवत्तर्पणं पुरा ।
पितृणां देवतानां च ततोश्रममियां तदा ॥
रमाते यत्र तौ नित्यं नरनारायणावृषी ।
अदूरादाश्रमात्किञ्चिद्वासार्थमगमं तदा ॥
अत्र चीराजिनधरं कृशमुच्चमतीव च ।
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥
अन्यैर्नरैर्महाबाहो वपुषाऽप्रतिमं तदा ।
कृशता चापि राजर्षे न दृष्टा तादृशी मया ॥
शरीरमपि राजेन्द्र तनु कानिष्ठिकासमम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च ।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥
दृष्ट्वाऽहं तं कृशं विप्रं भीतः परमदुर्मनाः ।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥
निवेद्य नामगोत्रे च तथा कार्यं नरर्षभ ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥
ततः स कथयामास धर्मार्थसहिताः कथाः ।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥
त--स्तु कथयत्येव राजा राजीवलोचनः ।
उपयाज्जवनैरश्वैः सबलः सावरोधनः ॥
स्मरम्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।
भूविद्युम्नपिता श्रीमान्वीरद्युम्नो महायशाः ॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति भारत ।
एवमाशाकृशो राजा चरन्वनमिदं पुरा ॥
दुर्लभः स मया द्रष्टुं भूय एव च धार्मिक ।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥
न स शक्यो मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥
एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः ।
अवाक््शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।
उवाच वाक्यं दीनात्मा मन्दमन्दमिवासकृत् ॥
दुर्लभं किन्नु देवर्षे आशायाश्चैव किं महत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न चेत्तदा ॥
तनुरुवाच ।
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः । बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽत्मनः ।
अर्थयन्कुशलं राजन्काञ्चनं वल्कलानि च ॥
[अवज्ञापूर्वकेनापि न सम्पादितवांस्ततः.] निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥
एवमुक्तोऽभिवाद्याथ तमृषिं लोकपूजितम् ।
श्रान्तोऽवसीदद्धर्मात्मा यथा त्वं नरसत्तम ॥
अर्ध्यं ततः समानीय पाद्यं चैव महायशाः ।
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत् ॥
ततस्तमृषयः सर्वे परिवार्य नरर्षभम् ।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥
अपृच्छंश्चैव तत्रैनं राजानमपराजितम् ।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशने ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0