भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.122

12.122.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥

12.122.2

स राजा धर्मविन्नित्यं सह पत्न्या महातपाः । मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम् ।

12.122.3

तत्र शृङ्गे हिमवतो वसतिं समुपागमत् ।
यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥

12.122.4

तदादि च महाप्राज्ञः ऋषिभिः संशितव्रतैः ।
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥

12.122.5

स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः ।
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥

12.122.6

तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥

12.122.7

सोपसृत्य तु मान्धाता वसुहोमं नराधिपम् ।
दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते ॥

12.122.8

वसुहोमोऽपि राज्ञो वै गामर्ध्यं च न्यवेदयत् ।
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ ॥

12.122.9

सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते ॥

12.122.10

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः ।
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥

12.122.11

बृहस्पतेर्मतं राजन्नघीतं सकलं त्वया ।
तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम ॥

12.122.12

तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते ॥

12.122.13

कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः ।
ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम् ॥
वसुहोम उवाच ।

12.122.14

शृणु राजन्यथा दण्डः सम्भूतो लोकसन्ग्रहः ।
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥

12.122.15

ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम् ॥

12.122.16

स गर्भं भगवान्देवो बहुवर्षाण्यधारयत् ।
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत् ॥

12.122.17

स क्षुपो नाम सम्भूतः प्रजापतिररिन्दम् ।
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः ॥

12.122.18

तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।
इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥

12.122.19

तस्मिन्नन्तर्हिते चापि प्रजानां सन्करोऽभवत् ।
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते ॥

12.122.20

पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम् ।
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम् ॥

12.122.21

परस्परं विलुम्पन्ति सारमेया यथाऽमिषम् ।
अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते ॥

12.122.22

ततः पितामहो विष्णुं भगवन्तं सनातनम् ।
सम्पूज्य वरदं देवं महादेवमथाब्रवीत् ॥

12.122.23

अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर ।
अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे ॥

12.122.24

त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा । सन्करो न भवेदत्र यथा तद्वै विधीयताम् ॥

12.122.25

ततः स भगवान्ध्यात्वा तदा शूलवरायुधः ।
देवदेवो महादेवः कारणं जगतः परम् ॥

12.122.26

ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः । लोकसन्धारणार्थं च लोकसन्करनाशनम् ।
आत्मानमात्माना दण्डं ससृजे देवसत्तमः ॥

12.122.27

तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम् ।
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम् ॥

12.122.28

यथाऽसौ नीयते दण्डः सततं पापकारिषु । दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते ॥

12.122.29

भूयः स भगवान्ध्यात्वा चिरं शूलघरः प्रभुः ।
असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥

12.122.30

दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः ।
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ॥

12.122.31

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥

12.122.32

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥

12.122.33

दश चाष्टौ च विख्याता एता धर्मस्य संहिताः ।
एतासामेव विद्यानां व्यासमाह महेश्वरः ॥

12.122.34

शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम् ।
व्यास एव तु विद्यानां महादेवेन कीर्तितः ॥

12.122.35

तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम् ।
योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा ॥

12.122.36

तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् ।
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम् ॥

12.122.37

तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः ।
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः ॥

12.122.38

पुराणाश्च प्रणीताश्च तावदेवेह संहिताः ।
धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा ॥

12.122.39

एकार्थानि पुराणानि वेदाश्चैकार्यसंहिताः ।
नानार्थानि च सर्वाणि ततः शास्त्राणि शन्करः ॥

12.122.40

प्रोवाच भगवान्देवः कालज्ञानानि यानि च ।
चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् ॥

12.122.41

अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम् ।
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् ॥

12.122.42

इत्येताः शन्करप्रोक्ता विद्याः शब्दार्थसंहिताः ।
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः ॥

12.122.43

ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः ।
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः ॥

12.122.44

वेदाश्चतस्रः सन्क्षिप्ता वेदवादाश्च ते स्मृताः ।
एतासां पारगो यश्च स चोक्तो वेदपारगः ॥

12.122.45

वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः ।
शक्रः स्वायम्भुवश्चैव मनुः परमधर्मवित् ॥

12.122.46

ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः ।
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः ॥
भीष्म उवाच ।

12.122.47

अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च । शन्करस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह ।
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः ॥

12.122.48

कल्पेकल्पे महाभागैरृषिभिस्तत्त्वदर्शिभिः ।
ऋषिपुत्रैरृषिगणैर्भिद्यन्ते मिश्रकैरपि ॥

12.122.49

शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः ।
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः ॥

12.122.50

इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः ।
पूर्वजन्मानुसारेण बहुधेयं सरस्वती ॥

12.122.51

भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः । तस्यतस्य निकायस्य चकारैकैकमीश्वरम् ॥

12.122.52

देवानामीश्वरं चक्रे दैवं दशशतेक्षणम् ।
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥

12.122.53

अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।
धनानां राक्षसानां च कुवेरमपि चेश्वरम् ॥

12.122.54

पर्वतानां पतिं मेरुं सरितां च महोदधिम् ।
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥

12.122.55

रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः ।
महात्मानं महादेवं विशालाक्षं सनातनम् ॥

12.122.56

दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसम्भवाः । नानारूपधरो देवः स एव भगवाञ्शिवः ॥

12.122.57

वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् ।
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥

12.122.58

वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम् ।
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥

12.122.59

कालं सर्वेशमकरोत्संहारविनयात्मकम् ।
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥

12.122.60

ईश्वरो देवदेवस्तु राजराजो नराधिपः ।
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥

12.122.61

ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः ।
विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥

12.122.62

सृजते ग्रसते चैतत्तमोभूतमिदं यथा । अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः ॥

12.122.63

तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥

12.122.64

महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः ।
दण़्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥

12.122.65

विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः ।
प्रादादिन्द्रमरीचिभ्या मरीचिर्भृगवे ददौ ॥

12.122.66

भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम् ।
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥

12.122.67

क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥

12.122.68

विभज्य दण़्डः कर्तव्यो दण्डे तु नयमिच्छता ।
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया ॥

12.122.69

व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात् ।
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम् ॥

12.122.70

तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम् ।
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन् ॥

12.122.71

इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ।
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ॥

12.122.72

प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ।
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ॥

12.122.73

व्यवसायात्ततस्तेजो जागर्ति परिपालयत् ।
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः ॥

12.122.74

पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ।
जागर्ति निरृतिर्देवी ज्योतींषि निरृतीमनु ॥

12.122.75

वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ।
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ॥

12.122.76

पितामहान्महादेवो जागर्ति भगवाञ्शिवः ।
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा ॥

12.122.77

ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ।
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ॥

12.122.78

ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मताः ।
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥

12.122.79

प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।
सर्वसन्क्षेपको दण़्डः पितामहसुतः प्रभुः ॥

12.122.80

जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ।
ईशः सर्वस्य कालो हि महादेवः प्रजापतिः ॥

12.122.81

देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः ।
कपर्दी शन्करो रुद्रो भवः स्थाणुरुमापतिः ॥

12.122.82

इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे ।
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥
भीष्म उवाच ।

12.122.83

इतीदं वसुहोमस्य योऽत्मवाञ्शृणुयान्मतम् ।
श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः ॥

12.122.84

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥

12.122.85

वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा । मयापि कथितं राजन्नाख्यानं प्रथितं मया ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc