महाभारत · अध्याय 12.121
अयं पितामहेनोक्तो राजधर्मः सनातनः ।
कीदृशश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥
देवतानामृषीणां च पितॄणां च महात्मनाम् ।
यक्षरक्षः पिशाचानां मर्त्यानां च विशेषतः ॥
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् ।
सर्वस्यापि महातेजा दण्डः श्रेयानिति प्रभो ॥
इत्येतदुक्तं भवता दण्डे वै सचराचरम् । पश्यतां लोक आयत्तं ससुरासुरमानुषम् ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥
को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः ।
किमात्मकः कथम्भूतः कतिमूर्तिः कथं प्रभुः ॥
जागर्ति च कथं दण्डः प्रजासु विहितात्मकः ।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन् ॥
कश्च विज्ञायते पूर्वः को वरो दण्डसञ्ज्ञितः ।
किंसंस्थश्चाभवद्दण्डः का चास्य गतिरिष्यते ॥
भीष्म उवाच ।
शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः ।
यस्मिन्हि सर्वमायत्तं स धर्म इति केवलः ॥
धर्मस्यार्थे महाराज व्यवहार इतीष्यते ।
तस्य लोपः कथं न स्याल्लोकेष्विह महात्मनः ॥
इत्यर्थं व्यवाहरस्य व्यवहारत्वमिष्यते ।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः ॥
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥
यथोक्तमेतद्वचनं प्रागेव मनुना पुरा ।
यन्मयोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः ।
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥
दण्डान्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते ।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः ॥
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः ।
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरासदः ॥
असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः ।
मुसलं परशुश्चक्रं प्रासदण्डर्ष्टितोमराः ॥
सर्वप्रहरणीयानि यानि यानीह कानिचित् ।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान् ॥
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा ।
घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥
असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुरासदः ।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्रवचनं परम् ।
धर्मपालोऽक्षरो गोपः सत्यगो नित्यगो गृहः ॥
असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवन्करः ।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः ।
शश्वद्रुपं महद्बिभ्रन्महात्पुरुष उच्यते ॥
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती ।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले ।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः ।
अप्रमादः प्रमादश्च हर्षशोकौ शमो दमः ॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये ।
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषामृते ॥
अन्तश्चादिश्च मध्यं च कृतानां च प्रपञ्चनम् ।
मदः प्रमोदो दर्पश्च दम्भो धैर्यं नयानयौ ॥
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ ।
विनयश्च विसर्गश्च कालाकालौ च कौरव ॥
अनृतं चाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च ।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥
तीक्ष्णता मृदुतात्युग्रमागमानागमौ तथा ।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले ॥
असूया चानसूया च धर्माधर्मौ तथैव च ।
अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह ॥
तेजः कर्माणि पाण्डित्यं वाक्शक्तिर्बुद्धितत्वता ।
एवं दण्डस्य लोकेऽस्मिञ्जागर्ति बहुरूपता ॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् ।
भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर ॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः ।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥
व्यवस्थापयते नित्यमिमं लोकं नरेश्वर ।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥
धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च ।
बभूव यज्ञो देवेभ्यो यज्ञः प्रीणाति देवताः ॥
प्रीताश्च देवता लोकमिन्द्रे प्रतिददत्युत ।
अत्रं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥
एवम्प्नयोजनश्चैव दण्डः क्षत्रियतां गतः ।
रक्षप्रजाः स जागर्ति नित्यं स्ववहितोक्षरः ॥
ईश्वरः पुरुषः प्राणः सत्वं वृत्तं प्रजापतिः ।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः ॥
अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च ।
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥
कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु ।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च ।
देशिकाश्चादिकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥
अथ चाङ्गस्य युक्तस्य रथिनो हस्तियायिनः ।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः ।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह तं विदुः ।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च ॥
ईश्वरेण प्रसन्नेन कारणात्क्षत्रियस्य च ।
दण्डो दत्तः सदा गोप्ता दण्डो हीदं सनातनम् ॥
राजा पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः ।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च ॥
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाविधः ।
तस्याद्य सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते ।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः ॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ।
ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च ॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः ।
धर्मप्रत्यय उद्दिष्टो यश्च धर्मः कृतात्मभिः ॥
व्यवहारः प्रजागोप्ता ब्रह्मदृष्टो युधिष्ठिर ।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः ।
व्यवहारश्च दृष्टो यः स वेद इति नः श्रुतिः ॥
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ।
ब्रह्मा पितामहः पूर्वं भगवांश्च प्रजापतिः ॥
लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ।
स मनुष्योरगवतां कर्ता चैव स भूतकृत् ॥
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः ।
तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥
माता पिता च भ्राता च भार्या चैव पुरोहितः ।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0