महाभारत · अध्याय 12.123
तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् ।
लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता ॥
धर्मार्थकामाः किम्मूलाः प्रभवः प्रलयश्च कः ।
अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् ॥
भीष्म उवाच ।
य एते स्युः सुमनसो लोकसंस्थार्थनिश्चये ।
कामप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा ॥
धर्ममूलोऽर्थ इत्युक्तः कामोऽर्थफलमुच्यते ।
सन्कल्पमूलास्ते सर्वे सन्कल्पो विषयात्मकः ॥
विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये ।
मूलमेतन्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते ॥
धर्मः शरीरसन्गुप्तिर्धर्मार्थश्चार्थ इष्यते ।
कामो रतिफलश्चात्र सर्वे रतिफलाः स्मृताः ॥
सन्निकृष्टांश्चरेदेतान्न चैतान्मनसा त्यजेत् ।
विमुक्तस्तपसा सर्वान्धर्मादीन्कामनैष्ठिकान् ॥
श्रेष्ठबुद्धिस्त्रिवर्गस्य उदयं प्राप्नुयात्क्षणात् । [कर्मणा बुद्धिपूर्वेण भवत्यर्थो न वा पुनः ॥ ]
अर्थार्थमन्यद्भवति विपरीतमथापरम् । अनर्थार्थमवाप्यार्थमन्यत्राद्योपकारकम्.]
बुद्ध्या बुद्ध इहार्थेन तदह्ना तु निकृष्टया ॥
अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् ।
सम्प्रमोहमलः कामो भूयस्तद्गुणवर्धितः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अरिष्टस्य च संवादं कामन्दस्य च भारत ॥
कामन्दमृषिमासीनमभिवाद्य नराधिपः ।
आङ्गोरिष्ठोऽथ पप्रच्छ कृत्वा समयमव्ययम् ॥
यः पापं कुरुते राजा काममोहबलात्कृतः ।
प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् ॥
अधर्मं धर्म इति च यो मोहादाचरेन्नरः ।
तं चापि प्रथितं लोके कथं राजा निवर्तयेत् ॥
कामन्द उवाच ।
यो धर्मार्थौ परित्यज्य काममेवानुवर्तते ।
स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्च्छति ॥
प्रज्ञानाशात्मको मोहस्तथा धर्मार्थनाशकः ।
तस्मान्नास्तिकता चैव दुराचारश्च जायते ॥
दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति ।
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥
तं प्रजा नानुरज्यन्ते न विप्रा न च साधवः ।
ततः सन्क्षयमाप्नोति तथा वध्यत्वमेव च ॥
अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् ।
जीवते यदपध्वस्तः शुद्धं मरणमेव तत् ॥
अत्रैतदाहुराचार्याः पापस्य परिवर्तनम् ।
सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च ॥
महामना भवेद्धर्मे विवहेच्च महाकुले ।
ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः ॥
जपेदुदकशीलः स्यात्सुमुखो न च नास्तिकः ।
धर्मान्वितान्सम्प्रविशेद्बहिः प्लुत्यैव दुष्कृतम् ॥
प्रसादयेन्मधुरया वाचा वाऽप्यथ कर्मणा ।
इत्यस्तीति वदेन्नित्यं परेषां कीर्तयन्गुणान् ॥
अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् ।
पापान्यपि हि कृच्छ्राणि शमयेन्नात्र संशयः ॥
गुरवो हि परं धर्मं यं ब्रूयुस्तं तथा कुरु ।
गुरूणां हि प्रसादाद्वै श्रेयः परमवाप्स्यसि ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0