भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.120

12.120.1

राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत ।
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥

12.120.2

तदेव विस्तरेणोक्तं पूर्ववृत्तं सतां मतम् ।
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥
भीष्म उवाच ।

12.120.3

रक्षणं सर्वभूतानामिति क्षात्रं परं मतम् ।
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥

12.120.4

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।
तथा बहुविधं राजा रूपं कुर्वीत् धर्मवित् ॥

12.120.5

तैक्ष्ण्यं जिह्नत्वमादानं सत्यमार्जवमेव च ।
मध्यस्थाः सत्वमातिष्ठंस्तथा वै सुखमृच्छति ॥

12.120.6

यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत् ।
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥

12.120.7

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी ।
श्लक्ष्णाक्षरगतः श्रीमान्भवेच्छास्त्रविशारदः ॥

12.120.8

आयव्ययेषु युक्तः स्याज्जलस्रवणेष्विव । शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ।
आत्मार्थं हि सदा राजा कुर्याद्धर्मध्वजोत्तमम् ॥

12.120.9

नित्यमुद्यतदण्डः स्यादाचारे चाप्रमादवान् ।
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाव्रजेत् ॥

12.120.10

आज्ञावान्स्यात्स्वयूथ्येषु भौमानि चरणैः किरन् ।
जतिपक्षः परिस्पन्देत्प्रेक्षेद्वैकल्यमात्मनः ॥

12.120.11

दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत् ।
क ननेष्विव पुष्पाणि बहिरर्थान्समाचरेत् ॥

12.120.12

उच्छ्रितानाश्रयेत्स्फूतान्नरेन्द्रानचलोपमान् ।
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत् ॥

12.120.13

प्रावृषीवासितग्रीवो माद्येत निशि निर्जने ।
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत् ॥

12.120.14

न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ।
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत् ॥

12.120.15

प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्ग्रहणे पुनः । एवं मयूरधर्मेण वर्तयन्सततं नरः ।
हन्यात्क्रुद्धानतिविषांस्ताञ्जिह्मगतयोऽहिताः ॥

12.120.16

नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत् । सदा बर्हिसमं कामं प्रशस्तं कृतमाचरेत् ।
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव ॥

12.120.17

एवं मयूरवद्राजा स्वराज्यं परिपालयेत् ।
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः ॥

12.120.18

आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणाम् ।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥

12.120.19

परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् ।
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ॥

12.120.20

सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजनकः ।
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा ॥

12.120.21

सन्निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ।
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥

12.120.22

अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः ।
आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥

12.120.23

मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित् ।
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥

12.120.24

अप्यदृष्टानि युक्तानि स्वानुरूपेषु कर्मसु ।
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः ॥

12.120.25

धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।
ममायमिति राजा यः सपर्वत इवाचलः ॥

12.120.26

व्यवहारं समाधाय सूर्यो रश्मीनिवायतान् ।
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥

12.120.27

कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः ।
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान् ॥

12.120.28

अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् ।
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः ॥

12.120.29

एतेन च प्रकारेण कृत्यानामागतिं गतिम् ।
युक्त्या समनुतिष्ठेन तुष्टश्चारैः पुरस्कृतः ॥

12.120.30

अमोघक्रोधहर्शस्य स्वयं कृत्याऽनुदर्शिनाः ।
आत्मप्रत्ययकोशस्य वसुदैव वसुन्धरा ॥

12.120.31

व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः ।
गुप्तात्मा गुप्तराष्ट्रस्य स राजा राजधर्मवित् ॥

12.120.32

नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन् ।
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत् ॥

12.120.33

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् ॥

12.120.34

यथाक्रमेण पुष्पेभ्यश्चिनोति मधु षट््पदः ।
तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् ॥

12.120.35

यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः ।
सञ्चयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥

12.120.36

नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् ।
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत् ॥

12.120.37

धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा धैर्यं शौर्यं देशकालाप्रमादः ।
अल्पस्य वा महतो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि ॥

12.120.38

अग्निस्तोको वर्धतेऽप्याज्यसिक्तो बीजं चैकं बहुसहस्रमेति ।
क्षयोदयौ विपुलौ सन्नियम्यौ तस्मादल्पं नावमन्येत वित्तम् ॥

12.120.39

बालोऽप्यबालः स्थविरो रिपुर्यः । सदा प्रमत्तं पुरुषं निहन्यात् ।
कालेनान्यस्तस्य मूलं हरेत् कालज्ञानं पार्थिवाना वरिष्ठम् ॥

12.120.40

हरेत्कीर्ति धर्ममस्योपरुन्ध्या दर्थे विघ्नं वीर्यमस्योपहन्यात् ।
रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रोर्नैव बिभ्येद्यथात्मा ॥

12.120.41

क्षयं शत्रोः सञ्चयं पालनं वा उभावर्थौ सहितौ धर्मकामौ ।
ततश्चान्यन्मतिमान्सन्दधीत तस्माद्राजा बुद्धिमन्तं श्रयेत ॥

12.120.42

बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम् ।
शत्रुर्बुद्ध्या सीदते पीड्यमानो बुद्धिपूर्वं कर्म यत्तत्प्रशस्तम् ॥

12.120.43

सर्वान्कामान्कामयानो हि धीरः सत्वेनाल्पेनाप्नुते हीनदोषः ।
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः श्रेयः पात्रं पूरयते च नाल्पम् ॥

12.120.44

तस्माद्राजा प्रगृहीतः प्रजासु मूलं लक्ष्म्याः सर्वशो ह्याददीत ।
दीर्घं कालं ह्यपि सम्पीड्यमानो व्युष्यात्सम्पद्व्यवसायेन शक्त्या ॥

12.120.45

विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद्व्यवसायेन शक्यम् ।
ब्रह्मायत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥

12.120.46

यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च ।
वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम् ॥

12.120.47

लुब्धं हन्यात्सम्प्रदानाद्धि नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति ।
सर्वो लुब्धः सर्वगुणोपभोगो योऽर्थैर्हीनो धर्मकामौ जहाति ॥

12.120.48

धनं भोगं पुत्रदारं समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम् ।
लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत् लुब्धम् ॥

12.120.49

सन्दर्शनेन पुरुषं जघन्यमपि चोदयेत् ।
आरम्भान्द्विषतां प्राज्ञः सर्वार्थांश्च प्रसूदयेत् ॥

12.120.50

धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिंश्च पाण्डव । आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसन्ग्रहे ॥

12.120.51

विविप्रयुक्तान्नरदेवधर्मा नुक्तान्समासेन निबोध बुद्ध्या ।
इमान्विदध्यादनुसृत्य यो वै राजा महीं पालयितुं स शक्तः ॥

12.120.52

सुनीतिजं यस्य विधानजं सुखं धर्मप्रणीतं विधिवत्प्रसिद्ध्यति ।
न निन्द्यते तस्य गतिर्महीपते स विन्दते राज्यसुखं ह्यनुत्तमम् ॥

12.120.53

धनैर्विशिष्टान्मतिशीलपूजिता न्गुणोपपन्नान्युधि दृष्टविक्रमान् ।
गुणेषु युक्तानचिरादिवात्मवां स्ततोऽभिसन्धाय निहन्ति शात्रवान् ॥

12.120.54

पश्येदुपायान्विविधेषु कर्मसु न चानुपायेन मतिं निवेशयेत् ।
श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते ॥

12.120.55

प्रीतिप्रवृत्तिं विनिवर्तनं च सुहृसु विज्ञाय विचार्य चोभयोः ।
यदेव मित्रं गुरुभारमावहे त्तदेव सुस्निग्धमुदाहरेद्बुधः ॥

12.120.56

एतान्मयोक्तांश्चर राजधर्मा न्नृणां च गुप्तौ मतिमादधत्स्व ।
अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोको नृप धर्ममूलः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc